________________
(२) अन्धकारवादः । अन्धकारे' विप्रतिपत्तिः। अन्धकारत्वं भाववृत्ति न वा । तत्रान्धकारत्वं भाववृत्ति इति तौतातिताः । नेति वैशेषिकादयः । तत्र परेषामयमाशयः । यथा घटादीनां भावत्वं प्रत्यक्षसिद्धम् तथा तमसोऽपि । न हि नीलं तम इति भ्रमः । तथात्वे बाधकाभावात् । अभावत्वे तु प्रतियोगिविशेषोल्लेखप्रसङ्गात् । एवम्भूतस्याप्यालोकाभावत्वे आलोकस्यैव तदभावत्वं किमिति नाङ्गीक्रियते ? भावत्वसाधकस्योभयत्रापि तुल्यत्वात् ।
ननु भावषट्कान्तर्भावे बाधक्रसद्धावादतिरिक्तभावस्याप्रामाणिकत्वाद् यावद्विशेषबाधेन भावत्वमेवास्य बाधितम् । तथाहि-न तावत् सामान्यम् , असदातनत्वात् । सामान्यं च सद् द्रव्यवृत्ति वा गुणवृत्ति वा कर्मवृत्ति वा स्यात् । नाद्यः द्रव्याऽभानेऽपि गहनं तम इति प्रतीतेः । नेतरः। रूपाधवृत्तितया गृह्यमाणत्वात् । नान्त्यः कर्माभानेऽपि भासमानत्वात् । नातिरिक्तवृत्ति अन्यस्य सामान्यवतोऽभावात् । प्रत्यक्षत्वादनित्यत्वाच्च न विशेषोऽपि । नापि समवायः । सम्बन्धत्वेनानवगमादनित्यत्वाच्च । नापि गुणश्चतुर्विंशतावनन्तर्भावात् । नीलरूप एव वाऽस्यान्तर्भाव इति चेन्न नीलरूपं तम इति प्रत्ययाभावात् । एतेनारोपितं तदिति परास्तम् । अन्यत्रापि नीलीद्रव्योपरक्तेषु वस्त्रचर्मादिषु तमोव्यवहारप्रसङ्गात् । 'गुणे शुक्लादयः पुंसी'ति कृत्वा नीलस्तम इति प्रत्ययप्रसङ्गाच्च ।
किं चायमन्धकारोऽसमवेतो वा द्रव्यान्यसमवेतो वा द्रव्यसमवेतो वा स्यात् । असमवेतोऽपि जातिमान्न वा । आधे द्रव्य स्यान्न गुणः । द्वितीये समवायाभावयोरन्यतरत्वप्रसङ्गैः । तथापि गुणत्वव्याघातः । नाऽपि द्वितीयः । गुणत्वव्याघातात् । नाऽपि तृतीयः पृथिव्यादिषु नवस्वसमवेतत्वात् । तथाहि नायं दिकालमनोगुणः
१. P adds च । २. M1 reads तौतातिकाः । ३. P+ MI read प्रमाणाभावात् । ४. M1+ I.O. read द्रव्याभावेऽपि । ५. M1 + Ma read. नेतरे । ६. M, and I. O. read कर्माभावेऽपि । ७. Mreads वाऽस्यान्त. र्भावात् । ८. P has आरोपितं नीले रूपं तम इति तदपि । Ma has आरोपित नीलं रूपं तदिति । Pn reads आरोपितं रूपं तदिति । ९. P adds कम्बल, Pn reads पटादिषु । १०. P drops स्यात् । ११. P+MI read प्रसङ्गात् । १२. Pn reads नवस्वनवकाशात् । १३. P+Ma read दिकालमनसां गुणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org