SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ न्यायसिद्धान्तदीपे मङ्गलत्वम् । 'तत्कारणताग्रहस्तु विनायकाचनेत्यादिनैवेति न किञ्चिदनुपपश्नम् । वस्तुतो निर्बिघ्नेन समारब्धे कर्मणि या गतिः सा दर्शितैव । सोऽयं नमस्कारो नाङ्गं विघ्नवतो विलज्ञानवतो वा नमस्कारेऽधिकारात् । परिसमाप्तौ विघ्नशून्यस्याधिकारात् । न चाधिकारिभेदेनाङ्गप्रधानभावो भवति । अन्तरायविरहपूर्वकप्रारिप्सितपरिसमाप्तिकामो वा तत्राधिकारी । तथैवाचारात् । कर्मसमारम्भे च तत्समाप्तिकाम एव । तथाऽप्यधिकारिभेद एव । नाऽपि नैमित्तिकः । अकरणे प्रत्यवायप्रसङ्गात् । न चात्राऽनुमतिरेव निस्ताराय । प्रायश्चित्तानुपदेशात् । तस्मात् प्रधानमेवेदम् । न चैवमन्यदाऽपि करणप्रसङ्गः " नियतसमयकर्तव्यत्वात् । तथैवाऽऽचारादिष्टापत्तेर्वा । सोऽयं कचिदैहिकः क्वचिदामुष्मिकः । तथैवाचारात् । न च कारीरीवदैहिक एवेत्यवधातव्यमिति दिक् ॥ इति मङ्गलप्रकरणम् १ || F १. P drops तत् from तत्कारणता । २. Padds दधिदुर्वा । ३. P adds पुंखा । 8. P reads चाधिकारमेदेन । ५. P drops । ६. M1 reads म चात्रानुमितिरेव विस्ताराय । ७ P reads करणत्वप्रसङ्गः । ८. Mg reads पुनः SP reads इति मङ्गलवादः समाप्तः । I.O reads इति मङ्गलवादः Jain Education International For Private & Personal Use Only 1 www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy