________________
-२२५.
न्यायसिद्धान्तदीपे
प्रमाणयोर्वस्तुगत्या विरोधो नास्ति । कुतः ? देशान्तरस्थस्यापि देवदत्तादेर्गृहाभावो वर्त्तते एव । तथापि विरोधप्रतिसन्धानं नाम विरोधज्ञानं तिष्ठत्येव । तदेव विरोधप्रतिसन्धानमये विशदयिष्यति - तदिति (१०० - २५) । विरोधज्ञानमित्यर्थः । दूषयति- अस्त्विति (१०० - २५) । विरोधप्रतिसन्धानमस्तु । एवमपीति (१००२५) । विरोधप्रतिसन्धानं वर्त्तते यद्यपि तथापि अतिरिक्तोऽर्थापत्तिपक्षो नास्ति ।
शङ्कते - अस्तित्वेति (१०० - २५) । क्वचिदस्ति गृहे नास्ति इत्यत्र यद्यपि विशिष्टयोविशेषो नास्ति तथापि अस्तित्वनास्तित्वमात्रांशे विरोध इत्यर्थः । विरोधः क इत्यत आह-सहेति (१०१ - १) । तथा तयोरिति ( १०१ - १ ) अस्तित्व नास्तित्वयोः सहानवस्थानं कुतः । शङ्कते - वैपरीत्येति (१०१ - १) । परस्पराभावव्याप्तिरूपता । अत एवं सहानवस्थानम् । दूषयति तथा चेति (१०१ -२) । तर्हि परस्पराभावव्याप्तिज्ञानमावश्यकम् । तदा तदनुमानमेत्र जातम्, परमर्थापत्तिः प्रमाणान्तरं न जातम् ।
अस्त्विति (१०१-३) | बहिःसत्वमां प्रति संशयः करणं भवत्वित्यर्थः । संशय-विवृणोति - शतवर्षे ति ( १०१ - ३) । जीवीति (१०१ - ३) । जीवी गृहेऽवतिष्ठतीयं व्याप्तिः, प्रत्यक्षेणोपलच्या तदनन्तरं कदाचित् गृहे देवदत्ताभावमुपलभ्य तदनन्तरं जीवी न वा किंवा गृह एवेति न वा एतादृशः संशयो जायते । 'ननु 'स' संशयः कथं बहिःसत्त्वं कल्पयतीत्यत आह - स चेति (१०१ - ५) । लाघवेलि (१०१ - ५) । गृहाभावदर्शनानन्तरं जीवित्वग्राहकम्, अथ च व्याप्तिग्राहकंद्वयं तु प्रमाणं न भवति । एकस्य बाधः कर्त्तव्यः । तन्मध्ये कस्य बाधः कर्त्तव्यः । जीवित्वप्राहकस्य उत नियमग्राहकस्य । द्वयोर्मध्ये जीवित्वग्राहका कल्पनीयम् । नियमग्राहकबाधे बहिःसत्त्वं कल्पनीयम् । तत्र मरणस्याभावरूपत्वेन गुरुत्वाद् द्वयोर्जीवित्वग्राहक नियमग्राहक योर्बाधः स्यादिति लाघवान्नियमग्राहकमेव बाध्यते । लघुभूतं बहिःसत्वमेव कल्प्यते । एतादृशो यो लाघवाख्यतर्कः स एव बहिःसत्वं कल्पयति ।
शङ्कते न चेति (१०१ - ६) | जीवनग्राहकबाधे मरणमेव कुतो न कल्प्यते इत्यर्थः । उत्तरमाह — क्वचिदस्तीति (१०१ - ७ ) । एवं सति क्वचिदस्तिता - चिरजीवित्वग्राहकं प्रमाणं ज्योतिःशास्त्रं नियमग्राहकं च द्वयोरपि बाधप्रसङ्गात् । बाधिते क्वचिदस्तिताया अपि बाधः प्रमाणयोर्द्वयोर्बाधः । क्वचिदस्तिताबाधः १. जीवी गृह एवेयं व्याप्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org