________________
अर्थापत्तिवादटिप्पनम्
२२९ सम्भवमात्रेणोक्तः । तस्मात् बहिःसत्त्वमेव लाघवात् कल्प्यते इत्याह-बहिः सत्त्वेति (१०१-७) । बहिःसत्व कल्पने एकस्यैव बाधः कल्प्यते । जीवित्वबाधे प्रमाणद्वयस्य बाधः इति लाघवमस्ति ।
नैयायिक आह-संशयेति (१०१--९)। बहिःसत्त्वप्रमा प्रति संशयः करणम् उक्तः । स च न सम्भवति, कुतः ? आवश्यकतर्कसह कृतानुमानादेव बहिःसत्त्वप्रमा भविष्यतीत्याहअनयोरिति (१०१-९)। जीवित्वग्राहकप्रमाण-नियमग्राहकप्रमाणयोर्मध्ये एकं प्रमाणमन्यदप्रमाणम् । कुतः ? विरुद्धार्थग्राहकत्वादिति । सामान्यतो दृष्टेऽनुमान एवं लाघवं सहकारि भवतु अक्लुप्ते संशये । तथा च लाघवात् बाध्यत्वं नियमग्राहकस्यैव जातम् । एवं सति जीवित्वे निश्चिते सति जोविवे सति गृहा भावप्रतियोगित्वेन बहिःसत्वानुमानं सुकर मेव, किं संशय रूपकरणे. नाऽर्थापत्त्या ।
__ लाघवासहकारे तु तवापि अर्थापत्त्याऽपि बहिःसत्त्वसिद्धिर्नास्तीत्याहअन्यथेति (१०१-१०) लाघवास्वीकारे फलं (१०१-११) बहिःसत्त्वप्रमा तस्याः निःसरणम् (१०१-११) उत्पत्तिः सा नास्ति । बहिःसत्त्वग्रमा प्रति संशयकरणत्वे दूषणान्तरमाह-अन्यथेति (१०१-११) । यदि बहिःसत्त्वप्रमा प्रति संशयः कारणं स्यात् तदा अन्यत्रापोति (१०१-११) । अनुमितिशब्दप्रमादौ संशय एव करणं स्यादित्यर्थापत्तिरेव प्रमाणं स्यान्न त्वनुमानादिकम् ।
तर्क एवार्थापत्तिरूप इति मतं खण्डयति-न चेति (१०१--१२) । दूषयति . विपर्ययेति (१०१--१२) विपर्ययपर्यवसानं यथा-यदि देवदत्तो बहिर्न स्यात् तदा जीविनो गृहेऽभावो न स्याद्, वर्तते तु गृहेऽभाव. इदं विपर्ययपर्यवसानम् । तथा च विपर्ययपर्यवसानादेव बहिःसत्त्वसिद्धेः ये ये पक्षा वाादनां अर्थापत्ति करणत्वे तेऽनया रीत्या खण्डनीयाः ॥ वाचनाचार्यगुणरत्नगणिविरचिते शशधरटिप्पनेऽर्थापत्तिप्रकरणं सम्पूर्णम् ॥ शुभं भूयात् ॥ श्रीरस्तु ।। कल्याणमस्तु लेखकपाठकयोः श्रीः शुभं भवतु ॥श्रीः।।
१ प्रतौ लाघवो सहकारे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org