________________
२२७
अर्थापत्तिवादटिप्पनम् तवाऽप्यनुपपत्तिप्रतिसन्धानाभावेन तवाप्यर्थापत्तिः प्रमाणं न स्यात् । विशेषणसन्देहं निराकरोति-एवमिति (१००-१८)। जीवित्वे सति गृहाभावप्रतियोगित्वं हेतुः। अत्र हेतुविशेषणजीवित्वस्य संशये नैयायिकानामनुमानाऽनवतारेऽपि प्राभाकराणामर्थापत्यवतारोऽपि नास्ति । कुतः ! जीवित्वे निश्चिते गृहाभावनिर्णयेन बहिःसत्वं कल्प्यते । तच्चेन्निर्णीतं नास्ति, कथं बहिःसत्त्वकल्पना ।
विपक्षे बाधकमाह-अन्यथेति (१००-१८)। यदि जीवित्वं सन्दिग्धं तदा बहिःसत्त्वकल्पनवत् मरण कल्पनाऽपि स्यात्, प्राभाकराणां सिद्धान्तविरोधश्चेत्याहजीविन (१००-१९) इति । व्यवस्थितं नाम निश्चितम् । तत् कल्पकमिति बहिःसत्त्वकल्पकमित्यर्थः । इति प्राभाकरमतम् ।
दूषणान्तरमाह-किं चेति (१००-२१)। जीवनप्राहकप्रमाणेन जीवित्वे निश्चिते जीवी देवदत्तः क्वचिदस्तीत्यनेन सामान्यतो देवदत्तस्य गृहसत्त्वमपि गृहीतम् । एवं सति गृहासत्त्वग्राहकप्रमाणेन प्रत्यक्षेण गृहासत्त्वं गृहीतम्, क्वचिदस्तीति प्रमाणेन गृहसत्त्वम् । एवं सति विरुद्धसामग्रया संशय एव भवति । तथा सति गृहासत्त्वसंशय कथमनुमानप्रवृत्तिरित्युक्तम् । तदपि न सम्भवतीत्यर्थः । कुतो न सम्भवति । यतः क्वचिदस्तीति प्रमाणेन सामान्यतो गृहसत्त्वं विषयीक्रियते, न तु गृहत्वेम रूपेण, गृहासत्त्वं तु गृहाभावग्राहकप्रमाणेन गृहत्वेन रूपेण गृहे देवदत्ताभावो विषयीक्रियते, तथा चात्र संशय एव न भवति । यतः क्वचिदस्तीति प्रमाणेन गृहविषयता निणांता नास्ति किन्तु सन्दिग्धा । एकांशे गृहासत्त्वांशे निर्णायका सामग्री गृहे नास्तीत्येवंरूपा क्वचिदस्तीति या सामग्री सा गृहसत्त्वनिर्णायका न भवति । न च निर्णायक संशायकसामग्रीभ्यां संशयः कदापि सम्भवति । तथा च गृहाभावो न संदिग्धः । तथा चानुमानप्रवृत्तिः ।
_ यदि च क्वचिदस्तीत्येतावन्मात्रेण गृहे तिष्ठति अन्यत्र बा इति चेत् संशयः स्यात् तदा आह-तदेति (१००-२२) तेनैवेति (१००-२२)। गृहाभावग्राहकप्रमाणेनैव । तत्संशयो नाम गृहे सन् असन् वा इति संशयो निरस्तो भविष्यति । नै च निश्चयानन्तरमपि क्वचिदस्तीत्यनेन संशयः स्यात् इत्यस आह-निश्चितेति (१००-२२) । अन्यथेति (१००-२३) । यदि निश्चयानन्तरमपि संशयः स्यात् तदा संशयस्य उच्छेद एव न स्यात् ।
पूर्वोक्तं मतं खण्डयति-न चेति (१००-२४)। एतत् प्राभाकरमते । प्रमाणयोर्विरोधज्ञानमर्थापत्तिः। प्रमाणयोर्विरोधज्ञानमेव विवृणोति आक्षेपसमाधानाभ्यां क्वचिदस्तीति(१००-२४)। यद्यपि क्वचिदस्ति गृहे नास्ति । अनयोः
१. ज्योतिःशास्त्रेण । २. आशकते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |