________________
२२६
न्यायसिद्धान्तदीपे सिद्धान्तमाह--कासाविति (१००-६)। जीविनो बहिःसत्त्वमन्तरेण गृहाभावस्यानुपपत्तिः सा केत्यर्थः, यस्याः व्याप्तिपक्षधर्मताज्ञानं विना बहिःसत्त्वज्ञानं प्रति कारणत्वमुच्यते । शङ्कते-बहिःसत्त्वमिति (१००-७) । बहिःसत्त्वं विना जीविनो देवदत्तस्य गृहसत्त्वाभावो नावतिष्ठते इति शेषः । सेति (१०० -७) सा अर्थापत्तिः । दूषयति-स तु बहिःसत्त्वेन विनाऽनवस्थितो गृहाभावो अविनाभाव एव । ततः किमित्यत आह- इयमेवेति (१००-८)। उपसंहरति-तथा चेति (१००-८)।
. पक्षान्तरेणार्थापत्ति दूषयति-एतेनेति (१००-९)। व्यतिरेकिप्रमाणमर्थापत्तिः । दूषयति-व्यतिरेकिण (१००-९) इति । तथा च व्याप्तिपक्षधर्मताभ्यां हीनो व्यतिरेको अर्थापत्तिर्वा । किं वा व्याप्तिपक्षधर्मताविशिष्टो व्यतिरेकी अर्थापत्तिा । आये व्याप्ति विना तव प्राभाकरस्यापि नापत्तिः । अन्त्ये आह-व्यतिरेकिणोऽपीति (१००-१०) । तथा च व्याप्तिपक्षधर्मनाविशिष्टो व्यतिरेक्यनुमानप्रमाणमेव । तथा चार्थापत्तिय॑तिरेक्यनुमानं च नामान्तरमेव ।
शङ्कते-न चेति (१००-११) । बहिःसत्वानुमाने लिङ्गं नास्ति कुतोऽनुमानप्रमाणम् । उत्तरमाह-गृहेति (१००-१२)। बहिःसत्त्वानुमाने गृहासत्त्वमेव लिङ्गम् । अत्राशङ्कते-न चेति (१००-१२) । गृहाभावो गृहनिष्ठः देवदत्ते पक्षे नास्ति । समाधत्ते-गृहेति (१००-१२) तथा च गृहेऽभावः गृहनिष्ठः यद्यपि तथाऽपि गृहनिष्ठाभावप्रतियोगित्वं तु देवदत्तनिष्ठमेव तदर्थत्वादिति गृहासत्त्वमित्यस्य गृहनिष्ठाभावप्रतियोगित्वमेवार्थः ।
लिङ्गपरामों न सम्भवतीत्याशङ्कते-न चेति (१००-१२)। असन्निकृष्टे · देवदत्ते गृहनिष्ठाभावप्रतियोगित्वं देवदत्ते कथं ग्राह्यम् । तद्ग्रह (१००-१३) इति । देवदत्तनिष्ठात्यन्ताभावस्य प्रतियोगित्वग्रह इत्यर्थः । समाधत्ते-उभयेति (१००१३)। अयमाशयः-गृहे देवदत्तस्याभावस्तर्हि देवदत्तस्येति षष्ठ्यर्थः । प्रतियोगिरवं गृहे देवदत्ताभावे ज्ञाते देवदत्तेऽपि गृहनिष्ठाभावप्रतियोगित्वं शक्यत एव । असन्निकृष्टस्थलेऽपि परामशों जायते इत्याह-यथेति (१००-१४) । परमाणुः परिमाणवान् द्रव्यत्वात् इति परमाणुवृत्तिद्रव्यत्वस्यासन्निकर्षेऽपि उपनीतानां पूर्व ज्ञातानां मानसः परामर्शः भवत्येव ।
अत्राशङ्कते-न चेति (१००-१६)। जीवो देवदत्तः क्वचिदस्तीति प्रमाणेन देवदत्तस्य गृहसस्वसंशयेन गृहाभावोऽपि सन्दिग्धः। भवतु सन्दिग्धस्तथाऽपि किमित्यत माह-सन्दिग्धमिति (१००-१७) । सन्दिग्धं तु लिङ्गं न भवतीत्यर्थः । निश्चितस्यैव विङ्गत्वात् । समाधत्ते-गृहासत्त्वस्येति (१००-१७) । यदि गृहाभावः संदिग्धस्तर्हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org