________________
अर्थापत्तिवादटिप्पनम् ।
२२५ मिति सामान्यतो देशभेदावगमो भवतु विरुद्धधर्माध्यासस्य फलं, परन्तु देशभेदेऽवाते गृहे चेन्नास्ति तदाऽर्थाद् बहिस्तिष्ठती [ती] दं ज्ञानं तदर्थापत्तरेत फलं, न त विरुद्धधर्माध्यासस्य फलं, विरुधर्माध्यासस्तु देशभेदावगममात्रेण चरितार्थः । ___ मतान्तरमप्याह-विरोधेति (९९-२४) । विरुद्धयोर्विरोधसम्भावना नाम गृहाभावदर्शनानन्तरं गृहसत्त्वं वा तिष्ठति, किं वा जीवित्वं वा तिष्ठति, परन्तु द्वयं न तिष्ठति-इयं विरोधप्सम्भावना । किंवा गृहाभावदर्शनानन्तरं किं गृहसत्त्वग्राहकं प्रमाणं जीवित्वग्राहकम् अप्रमाणं, किं वा जीवित्वग्राहकं प्रमाणं गृह सत्त्वग्राहकम् अप्रमाणम् इति प्रामाण्यसम्भावना । सैव बहिःसत्त्वप्रमा प्रति कारणम् । सातिशयं कारणं करणं, विरुद्धयोर्या विरोधसम्भावना प्रमाणसम्भावना वा सा बहिःसत्त्वं प्रमा प्रति करणमित्यर्थः । ततः किमित्यत आह-तदेवेति (९९-२५)।
मतान्तरमप्याह -तर्क एवेति (१००-१)। तर्क एवार्थापत्तिस्थानेऽभिषिक्त इत्यर्थः । तस्वरूपं विवृणोति-एवं हीति (१०० १)। मूलोक्त एव तों ज्ञेयः । यद्वेति (१००-२) । जीवित्वग्राहकप्रमाणाज्जीवित्वं निश्चितं, नियमग्राहकप्रमाणाद् गृहसत्त्वं निश्चितम्, इदं जीविनो गृहसत्त्वग्राहकं यत् प्रमाणं तत् गृहे नास्तीति गृहाभावग्राहकं प्रमाण, तेन सह समानविषयकं नाम एकविषयकं स्यात्, तदा गृहनियमग्राहकम् अप्रमाणमेव स्यादिति । यतो जीविनो द्वयम् अनुपपन्नं यतो गृहसत्त्वं गृहासत्त्वं चेति द्वयमनुपपन्नम्-इति नियमग्राहकत्य यांऽप्रामाण्यप्रतिपत्तिस्तस्याः प्रतिसन्धानं नाम अनुवृत्तिः, सैव । अत्रेति (१००-४) । बहिःसत्त्वप्रमां प्रति कारणम् (१००-४) । नन्वनयोर्जीवित्वगृहसत्त्वयोरेकं बाध्यं, विरुद्धार्थग्राहकत्वात्-अनेनानुमानेन गृहसत्त्वबाधे देवदत्तो बहिरस्ति जीवित्वे सति गृहाभावप्रतियोगित्वादित्यनुमानादेव बहिःसत्त्वसिद्धौ किमर्थापत् येत्यत आह-व्यवस्थितमिति (१००-४)। अत्र योजना व्यवस्थितमनुमापकम् । अव्यवस्थित कल्पकमिति (१००-४)।
अयमाशयः-यदा गृहनियमस्यैव बाधानन्तरं यदा बहिःसत्त्वज्ञानं तदा भव. त्वनुमानं, यदा तु गृहनियमग्राहकं वा प्रमाणं जीवित्वग्राहकं वा प्रमाणमित्येकत्र बाधानिर्णयदशायां तर्काद्यद बहिःसत्त्वज्ञानं तदर्थापत्तेरेव । अत एवाह-अव्यवस्थितं कल्पकमि(१००-४)त्यस्यैकत्र बाधानिर्णय इत्यर्थः ।।
१. Note the repetition of यदा, a mannerism of गुणरत्व ।
२. जीवी गृह एव इदं प्रमाण; जीवित्वग्राहकप्रमाणं ज्योतिःशास्त्रम् । ૨૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org