________________
२२४
न्यायसिद्धान्तदीपे अन्यथेति (९९-२२)। यदि बहिः सत्त्वं न कल्प्येत तदा एकस्मिन् धर्मिणि विरुद्धयोर्जीरित्वगृहसत्त्वयोर्विरोधस्त्वेतादृशः-जीवनग्राहकप्रमाणात् जीवित्वं निश्चितं गृहसत्त्वग्राहकप्रत्याप्रमाणात् गृड्सत्त्वं निर्णीतं तदानीं विरोध एवं नास्ति । पश्चादेवदत्तस्य गृहाभावो दृष्टः तदनन्तरं तयोर्जीवित्वगृहसत्वयोर्विरोधबुद्धिर्जायते गृहे तु योग्यानुपलब्ध्या देवदत्तस्याभावो निर्णीतो वर्त्तते । एवं सति यदि जीवनग्राहकामाणाद्यदि जीवित्वं स्यात्तदा गृसत्त्वननुपपन्नं स्यात् । यदि गृहसत्त्वं प्रमाणं स्यात् तदा जोविश्वमनुपपन्नं स्यात् । इति विरोधप्रतिसन्धानानुपपत्तिरित्यर्थः । दूषयतितदपीति (९९-२३)। तथा च विरोधपरिहारार्थम् एकस्य बाध्यत्वं वक्तव्यं, तच्च बाध्यत्वं गृहान्यत्वेन बहिःसत्वेन विनाऽनुपपन्नम् इति या सामान्यतो बहिःसत्त्वसिद्धिः सा अर्थापत्यवोना । तथा च सामान्यतोऽर्था त्या बहिःसत्वसिद्धौ सत्यां देवदत्तबहिःसत्त्व सद्धिश्चेद् विरु द्वधर्माध्या पाद् भवति, भवतु, प्राथमिक बहिःसत्त्वसिद्धिस्तु अर्थापत्तिफलम् । सामान्यत (९९-२३) इति । यः सामान्यतो जीवी सन् स कविद्देशे तिष्ठति इति देशभेदावगमः, देशभेदावगमे जातेऽपि गृहान्यत्वेन गृहभिन्नदेशता नाम बहिःसत्त्वं तस्य परिच्छेदो नाम सिद्धिः । कचिदस्तीति प्रमाणे विद्यमानेऽपि या गृहदेशान्यदेशसिद्धिः साऽर्थापत्तिरेवेत्यर्थः ।
अयमाशयः-गृहाभावदर्शनानन्तरं जीवननिश्चायकप्रमाणं गृहसत्त्वग्राहकप्रमाणं तयोर्विरोधज्ञानम् । कथं विरोधज्ञानं ? गृहाभावदर्शनानन्तरं यदि देवदत्तस्य जीवित्वं स्यात् तदा प्रमाणविषयः गृहसत्त्वं कथं स्यात्, यदि च प्रमाण विषयो गृहसत्त्वं स्यात् तदा जीवित्वं कथं स्यात्-इदं विरोधप्रतिसन्धानं तदा विरुद्धधर्माध्यासो जातः । तन्निवृत्तये जीवनग्राहकप्रमाणाज्जीवता क्वचित् स्थातव्यमिति देशभेदावगमे गृहे चेन्नास्ति तदा बहिस्तिष्ठति इति विरुद्धधर्माध्यासात् बहिःसत्त्वसिद्धिः फलमिति पूर्वोक्तं मतम् । अपरमते जोवता क्वचिदेशे स्थातव्यमिति देशभेदावगमः विरुद्धधर्माध्यासस्य फलं, विशेषतो गृहभिन्नदेशसिद्धिस्तु अर्थापत्तेरेव फलम् इति
आपादतो मतद्वयम् । मतद्वयस्य सङ्खपत उपसंहारो यथा-विरुद्धयोरविरोधोपपत्तये जीवनप्रमाणाज्जीवित्वे सुदृढे जीवता क्वचित् स्थातव्यम् इति सामान्यतो देशभेदावगमो जातस्तदनन्तरं गृहे चेन्नास्ति तदाऽर्थाद् गृहान्यदेशे तिष्ठति इति गृहान्यदेशलक्षणं यद्बहिःसत्त्वं सिध्यति तद्विरुद्धधर्माध्यासादेव इदं पूर्वोक्तं मतम् । अपरमते अविरोधोपपत्तये सुदृढजीवनप्रमाणाज्जीवित्वे निश्चिते जीवता क्वचित् स्थातव्य, १. Note the repetition of यदि । २. गृहसत्त्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org