________________
अर्थापत्तिवादटिप्पनम् । ननु रजतार्थिप्रवृत्तिः पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानसाध्या प्रवृत्तित्वात् , सत्यरजतप्रवृत्तिवत् । न च सत्यरत प्रवृत्तावपि पुरोवर्तिविशेष्यकर जतप्रकारकज्ञानसाध्यत्वं नास्त्येव । न च व्यतिरेकी कर्त्तव्यः । तत्र व्याप्तिपक्षधर्मतयो रभावेन व्यतिरेकिणोऽप्रमाणत्वात् । कथं तर्हि व्यतिरेकिणोऽप्रमाणत्वे जीवित्वे सति गृहाभावदर्शनेन बहिर्भावानुमानमिति चेत् अर्थांपत्तिप्रमाणेनैव । एवं व्यवस्थिते उपोद्घातसङ्गत्याऽर्थापत्तिं निरूपयति । अथवा सत्यरजतस्थळे रजतार्थिप्रवृत्त्यन्यथाऽनुपपत्या रजतत्वविशिष्टज्ञानस्य कारणत्वव्यवस्थितौ विसंवादिप्रवृत्तिस्थलेऽपि रजतत्वविशिष्टज्ञानमन्ययाख्यातिरूपं सिध्यतीत्युक्तं तत्रान्यथानुपपत्तिः किं प्रमाणान्तरं वा व्यतिरेक्यनुमानं वेति विचारयितुं प्रसङ्ग सङ्गत्या तावदाह- इहेति (९९-१)। यत्रानुपपत्त्या विशिष्टज्ञानकारणत्वव्यवस्थितिः तत्रेत्यर्थः ।।
__ तत्रापित्तिमनुपपत्तिं व्यतिरेक्यनुमानातिरिक्तं प्रमाणं ये मन्यन्ते प्राभाकरादयः । अनुपपत्तिज्ञानं व्यतिरेक्यनुमित्यतिरिक्तप्रमाकरणं न वा इति विप्रतिपत्तिः । व्यतिरेक्यनुमित्यतिरिक्तप्रमाकरणमिति प्राभाकराणां कोटिः । नेति (९९-३) नैयायि. कानाम् । तत्र विप्रतिपत्तौ भूमिमारचयति-जीवतश्चैत्रस्येति (९९-२) । इदं तु उभयवादिसिद्धम् । जोवतश्चैत्रस्य गेहाभावदर्शनेन बहिःसत्वं ज्ञायते । तच्च बहिःसत्वज्ञानम् अनुमिति रूपमिति नैयायिकाः । अर्थापत्तिजन्यं ज्ञानमिति प्राभाकराः ।
प्राभाकरः शङ्कते- त ति (९९.३)। देवदत्तो ब हरस्ति गृहेऽभावात् । अत्र गृहाभावो न हेतुः, कुतः ? इत्यत आह-व्यधिकरणत्वादिति (९९-३)। देवदत्त: पक्षः। गृहाभावो हेतुः । स च गृहाभावो हेतुः पक्षवृत्तिरपेक्षितः, पक्षवृत्तिस्तु न भवति । किन्तु गृहनिष्ठ इति कृत्वा व्यधिकरण इत्यर्थः । पक्षधर्मां खण्डयित्वा व्याप्तिमपि खण्डयतिन चेति (९९-३)। यत्र जीवित्वे सति गृहाभावस्तत्र बहिःसत्त्वमिति व्याप्तिप्रतिप्तन्धानमपि नास्ति । बहिःसत्त्वं बहिःपदार्थवृत्तिनिष्ठगृहाभावो गृहनिष्ठः, अनयोः साहचर्यलक्षणा या व्याप्तिस्तस्याः ज्ञानमपि नास्ति । व्याप्तिं वण्डयित्वा पक्षधर्मतां खण्डयित्वा पक्षधर्मताज्ञानमपि नास्तीत्याह-कथमिति (९९-४) । यद्यपि गृहनिष्ठाऽत्यन्ताभावप्रतियोगित्वं देवदत्तनिष्ठो धर्मस्तेन पक्षधर्मताऽप्युपपद्यत एव, तथाऽपोन्द्रियासन्निकृष्टे देवदत्ते पक्षे गृहनिष्ठात्यन्ताभावप्रतियोगित्वस्य हेतोः ग्रहः स्यात्, स च नास्ति । ननु व्याप्तिाव तयाज्ञानं विनाऽप्यनुमानं स्यादित्यत आह
१. मूले- जीवतो देवदत्तस्येति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org