________________
२२०
न्यायसिद्धान्तदीपे प्रवर्तकमागतं तदेवान्यथाख्यातिः, विशिष्टज्ञानं नाम पुरोवर्तिविशेष्यकं रजतत्वप्रकारक ज्ञानं तदेवान्यथाख्यातिः ।
___अत्राशङ्कते -न चेति (९८-६) । न मया पुरोवत्तिविशेष्य के रजतत्वप्रकारक ज्ञानं कारणमुच्यते किन्तु पुरोवर्तिनि ज्ञानं पुरोवत्तिनिष्ठेन चा विक्यादिना या रजतोपस्थितेः तस्य स्मृतस्य रजतस्य पुरोवर्तिनि भेदाग्रहः । साऽपि कारणं प्रवृत्तो । पूर्वोक्तं भेदाग्रहं दूषयति--गेहे (९८-६) इति । यत्र पुरोवर्तिनि चाकचिक्यं न दृष्टं तत्रापि गेहे रजतमिति वाक्यात् या प्रवृत्तिर्जायते सा न स्यात् । कुतः ? पुरोवतिनिष्ठं चाकचिक्यं दृष्टमेव नास्तीति कृत्वा पुरोवर्तिनिष्ठं यच्चाकाचक्यं तेन स्भृतं यद्रजतं तस्य भेदाग्रहो नास्तीति कृत्वा, प्रवृत्तिस्तु दृश्यते। तत्रेति (९८-७)। यत्र गेहे रजतमिति वाक्यजात् ज्ञानात् प्रवृत्तिदृश्यते तत्र धर्मिणीत्यर्थः । चाकचिक्यादेरभावादिति (९८-७)। गेहे र नतं यद् विद्यते तस्मिन् चा कचिक्यस्याभावो नास्ति किन्तु अदर्शनादित्यर्थः ।
- प्रकारान्तरेण भेदाग्रहं दूषयति-नापीति (९८-७) । पुरोवर्तिनि रजतत्वप्रकारको यो भेदनिश्चयस्तस्याभावो भेदाग्रहः स एव प्रवृत्ति कारणम् । एतदपि न सम्भवतीत्यर्थः । सत्यरजतस्थले यत्र प्रवृत्तिर्जायते तत्र पुरोवतिन र जतत्वप्रकारकभेदनिश्चयः प्रसिद्धो न वा । आये आह-अन्यथेति (९८-८)। यत्र सत्यरजते रजतत्वप्रकारको भेदनिश्चयः प्रसिद्धस्तहि तत्रान्यथाझ्यातिरेव सिद्धा । यतः रजतत्वप्रकारकभेदाभाववति रजते रजतत्वप्रकारकं भेदज्ञानं भ्रम एव । द्वितीये पक्षे आहअप्रसिद्धत्वादिति (९८-९) । प्रतियोग्येव यत्राप्रसिद्धस्तत्र तदभावस्य कारणता कथं स्यात् इत्यर्थः ।
उपसंहरति-तस्मादिति (९८-९) । शुक्तौ रजतं प्रतीयते तदेवान्था ख्यातिरूपं ज्ञानम् । अन्यथाख्यातिस्वीकारे अन्यदपि प्रयोजनमाह- तेन चेति (९८-९) । यतोऽन्यथाख्यातिरूपज्ञानात् इष्टसाधनतामनुमाय रजतार्थिप्रवृत्तिर्भविष्यति । इदं पुरोवर्ति मदिष्ट साधनं रजतत्वात्, गेहस्थरजतवत् इतीष्टसाधनत्वानुमानमित्यर्थः । भेदाग्रहपक्षे तन्न सम्भवतीत्याह-न विति (९८-१०)। भेदाग्रहस्य प्रवर्तकत्वपक्षे इष्टसाधनत्वानुमिति स्ति, लिङ्गाभावात् । तथा च इष्टसाधनभेदाग्रह एव प्रवत्तको वक्तव्यः। स च इष्टसाधनभेदाग्रहः इष्टसाधनत्वानुमित्यपेक्षया गुरुभूत इति स न प्रवर्तक इति सङ्क्षपः ॥
वाचनाचार्यगुगरत्नगणिविरचिते शशधरटिप्पनेऽन्यथाख्यातिवा छ।
१.इष्टसाधनताज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org