________________
न्यायसिद्धान्तदीपे न च ताविति (९९-५) । व्याप्तिपक्षधर्मते विनेत्यर्थः । अतिप्रसङ्गादिति (९९-५) । अव्याप्येन हेतुना, अपक्षधर्मेण हेतुनाऽप्यनुमितिः स्याद्यथा धूमेन ह्रदे वह्नयनुमितिः स्यात् । रासभेन पर्वते वह्नयनुमितिः स्यात् । उदाहरणान्तरेणाऽप्यर्थापत्ति प्रमाणं समर्थ यति-एवमपीति (९९-५)। यथा पूर्व गृहाभावे व्याप्तिपक्षधर्मतयोर्ग्रहो नात्येवं दिवाभोजिनोऽपि पोनत्वे व्याप्तिपक्षधर्मतयोग्रहो नास्तीति पूर्ववत् ज्ञातव्यः ।
नैयायिकः शङ्कते-नन्विति (९९-८)। अत्र गृहाभावस्य याऽनुपपत्तिः सा का । तामेव विकल्प्य दूषयति-बहिःसत्त्वेति (९९-८)। देवदत्तस्य गृहासत्त्वं तस्य याऽनुपपत्तिः सा किं बहिःसत्त्वमात्रं विना उत देवदत्तबहिःसत्त्वं विनेत्यर्थः । प्रथम खग्डयति-एवं बहोति (९९-९) । न विति (९९-९) । न तु देवदत्तस्य बहिःसत्त्वं सिध्येत, किन्तु बहिःसत्त्वमात्रमेव सिध्येत । द्वितीयं दूषयतितदीयमिति (९९-९) : यदि देवदत्तब हःसत्त्वं विना देवदत्तगृहासत्त्वं चेदनुपपन्नं चेत्तदा प्रथमतः देवदत्तबहिःसत्त्वं ज्ञातमज्ञातं वा । आद्य इति (९९-१०)। देवदत्तबहिःसत्त्वज्ञानार्थमर्थापत्तिः स्वीकर्तव्या । तच्च देवदत्तबहिःसत्त्वज्ञानमर्थापत्तेः पूर्वं यस्मात् प्रमाणाज्जातं तदेव प्रमाणमस्तु, किमर्थापत्तिप्रमाणेन । द्वितीयं दूषयति-कथमिति (९९-११) । देवदत्तबहिःसत्त्वं चेदज्ञातम्, तदा देवदत्तबहिःसत्त्वं विना गृहासत्त्वमनुपपन्नमित्यर्थापत्यवतार एव नास्ति । अनिरूपितयाsर्थापत्या चेदर्थसिद्धिस्तदा देवदत्तगृहासत्त्वेन चैत्रस्य बहिःसत्वं सिध्येतेत्यतिप्रसङ्गः।
ननु नैयायिकमते देवदत्तबहिःसत्त्वसिद्धिः कथमनुमानात् सिध्यतीत्यत आहअनुमान त्विति (९९-१२) । तथा च नैयायिकमते यत्र बहिःसत्त्वाभावस्तत्र गृहासत्त्वाभावः, यथा गृहकोणे स्थितोऽहं तद्वत् इति सामान्यतो व्यतिरेकव्याप्त्या देवदत्तनिष्ठेनं गृहासत्वहेतुना देवदत्तबहिःसत्त्वं पक्षधर्मताबलादेव सिध्यति । विशिप्टेति (९९-१३)। देवदत्तबहिःसत्त्वसाधकमनुमानमेव प्रमाणम् । तत्रेति (९९-१३) । तत्र देवदत्तबहिःसत्त्वसिद्धी नार्थापत्तिः प्रमाणमित्यर्थः ।।
__समाधत्ते प्राभाकरः -विशकलिते (९९-१४) इति । यथा नैयायिकमते सामान्यव्याप्त्या पक्षधर्मताबलाद्विशेषसिद्धिः फलम् । एवं मन्मतेऽपि सामान्या
१ Text has न च ते विना । २. व्याप्तिर्यत्र नास्ति । ३. अपक्षधर्मेण । ४. अव्याप्येन हेतुनेति । ५. Repetition of चेत् is also a mannerism of गुणरत्न. ६. प्रतौ०णे स्थितमद्वत् इति । ७. बहिःसत्त्वं विना गृहासत्त्वमनुपपन्न इयं सामान्यज्याप्तिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org