________________
२१७
अन्यथाख्यातिवादटिप्पनम् । विशेष एव लक्ष्यते । दूषयति-सत्येति (९७-१४)। सत्यर जतस्थले नेदं रजतमिति यदा व्यवहारस्तदाऽपि प्रवर्तेत, कुतः ? यतः पुरोवर्तिज्ञानं रजतभेदप्रकारकं न हि, अथवा पुरोवर्तिनिष्ठे भेदे रजत प्रतियोगित्वं भासते एवमपि न हि । उभयविधप्रतिबन्धक भेदग्रहाभावात् प्रवृत्तिः स्यादित्यर्थः । एतदेवाह-न हीति (९७-१५) । सत्यर जत एव नेदं रजतमिति यदा व्यवहारस्तदा पुरोवर्तिज्ञानं रजतभेदप्रकारकं न भवतीति कृत्वा प्रथमः प्रतिबन्धको भेदग्रहो नास्तीति कृत्वा भेदाग्रहात् प्रवृत्तिः स्यात् प्राभाकरमते । न प्युत्तर इत्याह-न वेति (९७-१६)। तदिति (९७१६) । पुरोवर्तिनिष्ठः पुरोवर्तिज्ञानविषयो भेदस्तस्मिन रजतप्रतियोगित्वं वा गृह्यते इत्यपि नास्ति नेदं रजतमिति ज्ञान काले । तथा चोत्तरस्यापि प्रतिबन्धकस्य भेदग्रहस्याभावात् सुतगं र नत एव नेदं रजतमिति ज्ञानकाले प्रवृत्तिः स्यादित्यर्थः ।
__ ननु उभयथाऽपि प्रवृत्तिर्भवति यतो नेदं रजतमिति ज्ञानकाले इदमिति पुरोवत्तिज्ञानं रनतभेदविषयकं भवत्येव । अन्यथा नेदमिति स्फुरणं कथं स्यात् । एवं पुरोवर्तिनिष्ठे भेदेऽपि र जतप्रतियोगित्वं भासत एव । तथा च भेदग्रहस्य प्रतिबन्धकस्य विद्यमानत्वात् कथं प्रवृत्त्यापादनमित्यत आह-अन्यथेति (९७-१६) यदि सत्यरजतस्थले रजते पुरोवर्तिनि रजतभेदो नास्ति तत्पुरोवर्तिज्ञानं रजतभेदविषयकं चेत्तदा सुतशमन्यथाख्यातिः । यतश्च पुरोवर्ति यद्रजतं तन्निष्ठे भेदे रजतप्रतियोगिकत्वं नास्ति तत्र पुरोवर्तिनिष्ठे भेदे रजतप्रतियोगित्वं चेद् भासते तदा सुतरामन्यथाख्यातिः । पुरोवर्ति रजतं तस्मिन् रजते रजतभेदस्तु नास्ति, किन्तु रजतादितरे पदार्था घटादयस्तेषामेव भेदो वर्तते । एवं सति पुरोवर्तिरजतनिष्ठो यो घटादि भेद सस्मिन् घटादिभेदे रजतप्रतियोगित्वं नास्ति । तस्मिन् घटादिभेदे रजतप्रतियोगित्वं चेद् भासते तदाऽन्यथाख्यातिः स्यात् ।
दूषणान्तरमाह-किचेति (९७-१८)। प्राभाकरेण त्वया भेदाग्रहः प्रवतक इत्युच्यते । भेदस्याग्रहो मे दाग्रहः । तथा च भेदस्तु एकः स्वरूपात्मकः एको वैधात्मकः एकोऽन्योन्याभावात्मकः । यथा घटः पटो न भवतीत्यत्र घटे पटभेदस्तिष्ठति स पटभेदः, कः ? घटस्वरूपमेव । अयं च स्वरूपात्मको भेदः १, एवं घटे पटभेदः घटत्वात्मकः, पटस्य वैधयं हि घटत्वं, अयं वैध-.
त्मिको भेदः २, एवं घटे पटभेदः घटस्वरूपं घटत्वात्मकं यत् पटवैधय ताभ्यामतिरिक्तोऽन्योन्याभावरूपोऽतिरिक्तस्तेषां त्रयाणां मध्ये कस्याग्रहो भेदाग्रहः यः प्रवृत्ति व्यवहारं वा जनयति । न प्रथम इत्याह-न तावदिति (९७-१८)।
१. भेदाग्रहं । २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org