________________
२१६
न्यायसिद्धान्तदीपे अत्र शङ्कते प्राभाकरः- नापीति (९७-९) । यद्यपि इदं रजतमिति ज्ञानात् प्रवृत्तिन जाता तथापि इदं रजतमिति ज्ञानात् प्रवृत्तियोग्यता तिष्ठत्येव । दूषयतिअशक्यत्वादिति (९७-९)। व्यवहारशब्दो हि प्रवृत्तौ शब्दाभिलापे वा रूढी न तु योग्यतायामित्यर्थः । न हीति (९७-१०)। नेदं रजतमिति ज्ञानेन यदि रजतशब्दाभिधेयं पुरोवर्ति न भवतोदं बोध्येत तदा शब्दप्रयोगरूपस्य व्यवहारस्य बाधः स्यात् । स बाधो नास्ति : कुत ? इत्यत आह-अनुभवेति (९७-११)। नेदं रजतमिति ज्ञाने पुरोवर्तिनि र नतत्वाभावो विषयोऽनुभूयते । न तु रजतशब्दाभिधेयत्वाभावाविषयो नानुभूयते इत्यनुभवविरोधादित्यर्थः । - ... नैयायिको वक्ति । त्वन्मते बाधः कथं स्यादित्यत माह-मम त्विति । मम नैयायिकस्य मते दोषेणोत्पन्ने रजतज्ञाने नेदं रजतमिति ज्ञानेन रजतत्वाभाववति रजतत्वप्रकारकत्वलक्षणः भ्रमत्वबुद्धिरेव क्रियते स एव बाधः । अत्राशङ्कते-न चेति (९७-११)। तथा च पूर्वोक्तो यः स्वतन्त्रोपस्थितेष्टभेदाग्रहः स चेत् प्रवर्तकः स्यात् तदा पूर्वोक्तं दूषणं स्यात् । किन्तु भेदग्रहाः रजतप्रवृत्ती प्रतिबन्धकाः । तथा च इष्टभेदग्रहाणामभावकूट लक्षणो भेदाग्रहः रजते प्रवर्तकः । यथा मणिमन्त्रौषधोनां प्रतिबन्धकानामभावकूटो दाहजनकः । एवं यत्र यत्र यादृशमेदग्रहाः प्रसिद्धाः तादृशभेदाग्रहाणामभावक्टं प्रवृत्तो कारणम् । तदेवाह-रजतभेदेति (९७ -११) । कुत्रचिद्रजतप्रवृत्तौ रजतस्मरणं १ पुरोवर्ति ज्ञानं २ तच्चेद्रजतभेदप्रकारकं नाम रजतभिन्न स्यात् तदा प्रवृत्तिप्रतिबन्धः स्यादिति कृत्वा यत्र प्रतिबन्धकं वर्तते तत्र तादृशरजतभेदाप्रकारकं पुरोर्तिज्ञानं प्रवर्तकम् । यत्र रजतभेदो न भासते पुरोवर्तिज्ञाने स एव तत्र मेदाग्रहः प्रवर्तक इत्यर्थः । रजतोपस्थितिरिति (९७-११) । रजतस्मृतिरित्यर्थः । एवं सति ग्रहणस्मरणात्मकं रजतभेदापकारकं ज्ञानं प्रवत्तकमित्यर्थः ।
. प्रकारान्तरमाह-पुरोवर्तीति (९७-१२) । यत्र विशिष्टो रजतभेदः प्रसिद्धो नास्ति तत्र पुरोवर्तिनिष्ठा ये घटादिभेदाः तेषु घटादिभेदेषु रजतप्रतियोगित्वं चेद् गृह्यते तदा प्रतिबन्धो भवति । तत्र भेदेषु रजतप्रतियोगित्वं चेन्न गृह्यते तादृशप्रवृत्ती पुरोवर्तिनिष्ठे भेदे रजतप्रतियोगित्वस्याग्रह एव भेदाग्रहः । ननु भेदाग्रहश देन मेदग्रहाभावः । रजतप्रतियोगित्वाग्रहः कथं भेदाग्रह इत्यत आह-अग्रहपदेनेति (९७-१३)। भेदाग्रहशब्देन असुराऽविद्यावत् पर्युदासवृत्या भेदग्रहविरोधी अग्रह
१. वाच्यत्वाभावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org