________________
अन्यथाख्यातिवादटिप्पनम् ।
२१५
तादात्म्यं वा शुक्तिरजतत्वसम्बन्धों वेत्यादिना पूर्वं स्वण्डितमेव । समाधत्ते - प्रकारत्वेति (९७ - १) । रजतत्वेन शुक्तिज्ञतेत्यत्र रजतत्वेनेति तृतीयार्थः प्रकारकत्वं, तथा च शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं वृत्तमिति रजतत्वेन शुक्तिज्ञतेत्यस्य विषयः । तच्चादिति (९७ - १) तृतीयार्थत्वादित्यर्थः । शङ्कते न चेति (९७–१) । किं तत् प्रकारत्वम् ? | प्रकारत्वं यदि स्वरूपसम्बन्धविशेषः तदा स च संयोगातिरिक्तः सम्बन्धः प्राभाकरैर्नाङ्गीक्रियते ।
समाधत्ते - उभयेति (९७ - २) । यद्यपि स्वरूपसम्बन्धानङ्गीकारेऽपि ग्रहणस्मरणात्मकज्ञानद्वयवादिमते' रजतस्मरणं रजतत्वप्रकारकम् । तत्र प्रकारत्वं किं नामेति तवापि प्राभाकरस्य समाधेयम् । इत्युभयवादिसमाधेयेनैकस्य पर्यनुयोगो नामाधिक्षेप इत्यर्थः ।
पूर्वोक्तमाक्षिपति प्राभाकरः - न चेति (९७ - २ ) । दोषस्य पित्तादेः प्रकृतकार्यप्रतिबन्धकत्वमेव न तु विपरीत कार्य जनकत्वमित्यर्थः । समाधत्ते - दवदग्धेति (९७-३) | दोषाणां प्रकृतकार्यप्रतिबन्धकत्वेऽपि विपरीत कार्यजनकत्वं दृष्टं, यथा दवदग्धवेत्रबोजस्य वेत्राङ्कुर प्रतिबन्धकत्वेऽपि विजातीयकदलीप्रकाण्डजननं दृष्टम् । नन्दिमप्रमाणकं केन वा दृष्टमित्यत आह- अन्यथेति (९७ - ४) । यदि दोषाणां विपरीत कार्य जनकत्वं नास्ति तदा त्वन्मतेऽपि शुक्तिप्रवृत्तिप्रतिबन्धकत्वेऽपि विपरीतरजतार्थिप्रवृत्तिजनकत्वं कथं स्यादित्यर्थः । अत्राशङ्कते न चेति (९७ - ४) । तथा च सर्वत्रज्ञानेऽप्रामाण्यशङ्कया कुत्रापि ज्ञानात् प्रवृत्तिर्न स्यात् । समाश्वासेति (९७-५) । तथा च कस्मिन्नपि ज्ञाने विश्वासो न स्यादित्यर्थः । समाधत्ते - विसंवादीति (९७-५)। प्राभाकरमते व्यधिकरणप्रकारत्वलक्षणमप्रामाण्यं यद्यपि ज्ञाने नास्ति तथापि विसंवादिप्रवृत्तिजनकत्वलक्षणमप्रामाण्यं त्वन्मतेऽपि ज्ञाने तिष्ठतीति त्वन्मते प्राभाकरमतेऽपि विश्वासः कथं स्यादिति विश्वासोऽपि उभयवादिसमाधेय एव ।
नैयायिकः स्वमतं स्थापयित्वा परमतं दूषयति-न चेति (९७-७) । रजभेदाग्रहेण प्रसञ्जितो नाम कृतः एवम्भूतो योऽभेदव्यवहारः स प्राभाकरमतेनेदं रजतमिति ज्ञानेन बाध्यते इत्यर्थः । तत्र व्यवहारशब्दार्थः क इत्याह-व्यवहारो हीति (९७-७)। आद्यं दूषयति-न होति (९७ - ८ ) । प्रवृत्तेरिति (९७-९) । इदं रजतमिति ज्ञानाद्यत्र प्रवृत्तिर्न जाता तत्र नेदं रजतमिति ज्ञानेन किं बाध्यमित्यर्थः ।
१. प्राभाकरमते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org