________________
न्यायसिद्धान्तदीप ज्ञानमिति । एवं सामग्रीसाम्ये यदि अस्मान् प्रति यत्र शुक्तो रजतार्थी प्रवर्तते तत्रं निवृत्त्यापादनं तर्हि अस्माभिरपि त्वां पूति नेदं रजतमिति भेदज्ञानलक्षणं बाधः स्यादित्यापादनं कर्तव्यमेवेत्यर्थः ।
समाधत्ते-भ्रमेति (९६-२१)। भ्रमनियामिका या सामग्री सैव प्रवृत्तिनियामिकेति वक्तुं न शक्यते । कुतः ? सत्यरजतस्थले या प्रवृत्ति यते सा तु रजतत्वविशिष्टज्ञानाज्जायते न तु सादृश्येन ! स्मृतरजतभेदामहात् । तदेवाह-न चेति (९६-२१)। यत्र रजने रजतार्थिनः प्रवृत्ति जायते तत्रेत्यर्थः । तत्र पुरोवर्तिनिष्ठेन सादृश्येन स्मृतरजतभेदाग्रहाभावात् । कुतः ? इत्यस माह-सादृश्यं हीति (९६-२२)। न हि रजते रजतसादृश्यं यतः सादृश्यं हि तथाशब्दार्थः । ततः किमित्यत आहन चेति (९६-२२)। तत्रेति (९३-२२)। रजते यतो हि रजतगतभूयोधर्मवत्त्वं भेदघटितं सादृश्यमभिन्ने नास्तीत्याह-रजते (९६-२२) इति । ___ दूषणान्तरमाह-भ्रमेति (९६-२३)। वदतो व्याघात इत्यर्थः । कथं शुक्तो रजतत्वप्रकारकज्ञानस्य या सामग्रो सा प्रवृत्तिनियामका इत्यत्र भ्रमः किमनङ्गीकृतो अङ्गीकृतो वा । आये आह-भ्रमस्येति (९६-२३) । भ्रमाभावे भ्रमनियामिका सामग्री प्रवृत्तिनियामिकेति कथं वक्तव्यमित्यर्थः । वन्ध्यापुत्रमाता सुन्दरीतिवत् । अन्त्ये त्वाह--अङ्गीकारे (९६-२४) इति । यदि शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं भ्रमः स्वीकृतस्तर्हि । विवादेति (९६-२४) । सिद्धं नः समीहितं, प्रतिज्ञाहानिर्निग्रहस्थानं तवेत्यर्थः । त्वयाऽन्यथाख्यातिङ्गिीक्रियते इति प्रतिज्ञा तव प्राभाकरस्येत्यर्थः । ।
दूषणान्तरमाह-उपजीव्येति (९६-२४) । भ्रमसामग्रयैव प्रवृत्युपपत्ती भ्रमकल्पने प्रमाणाभावात् इत्यत्र भ्रमश्चेत् सिद्धस्तदा भ्रभसामग्रीसिद्धिरिति । भ्रममुपजीव्य प्रवृत्ता या भ्रमसामग्री सा भ्रमं न खण्डयति । यथा यागकारणतामुपजीव्य प्रवृत्तं यदपूर्व तयागकारणतां न खण्डयति । कुतः ? उपजीव्यप्रमाणविरोधात (९६-२४)। यागकारणताग्राहकं यदुपजे व्यप्रमाणं तेन सह विरोध इत्यर्थः । तदत्र भ्रमसाधकं यद् प्रमाणं तदुपनीव्य भ्रमसामग्री प्रवृत्ता सा न भ्रमं खण्डयति। कुतः ! भ्रमसाधकोपजीव्यप्रमाणविरोधात् इत्यर्थः । ..पूर्वोक्तं दूषणं निरस्यति-न चेति (९७-१)। रजतत्वेन प्रकारेण शुक्तिआता भत्र रजतत्वेन प्रकारेणेति तृतीयाथोनिर्वचनम् (९७ -१) । यथा शुक्तिरजत
१. शङ्कते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org