________________
अन्यथाख्यातिवादटिप्पनम् ।
२९६ तदानीमिदं रजतं परं नेदमरजतं शुक्तयादि इतिकृत्वा रजतभेदस्थासंसर्गग्रह एवं वर्तते । परं तु रजतभेदासंसर्गाग्रहो नास्ति कयं निवृत्यापादनम् । समाधत्तेअन्ययेति (९६-१७) तथा च शुक्तो यदा रजतार्थी प्रवर्तते तदानी रजतभेदवत्यां शुक्तो रजतभेदाभावग्रहे अन्यथाख्यात्यापत्तेः । अत्र शङ्कते-न चेति (९६-१७)। तत्रेति (९६-१७) यत्र रजतार्थी प्रवर्तते तत्र रजतभेदस्य संसर्गग्रहो नास्ति । तथापि पर रजतभेदासंसर्गस्यासंसर्गाग्रहो वर्तत एव । एतावता र जतमिति भ्रम कार्यमेव भविष्यति न तु नेदं रजतमिति बाध कार्य निवृत्तिलक्षणम् ।।
प्राभाकराणां मते यावद्भमकार्य तावदसंसर्गाग्रहस्य कार्यम् । यथा शुक्तो रजतत्वेन रूपेण रजतत्वस्य ग्रहो भ्रमः नैयायिकानाम् एवम् इदं रजतमित्यत्र रजतत्वेन रूपेण रजतत्वाभावस्य यो ग्रहः रजतत्वा संसर्गाग्रहलक्षणः स प्राभाकराणां भ्रमस्थानाभिषिक्तः तस्मादेव प्रवृत्तिः ।
दूषयति-असंसर्गेति (९६-१८)। यदि रजतभेदासंसर्गस्यासंसर्गाग्रहात् प्रवृत्तिः तदा रजतभेदासंसर्गस्यासंसर्गोऽतिरिको नास्ति किन्तु रजतत्वाभावात्मक एव । तथा च रजतत्वाभावाग्रहात् रजतत्वासंसर्गाग्रहलक्षणात् रजतभेदाग्रहलक्षणाद्वा प्रवृत्तिरित्येवागतम् । तत्र दूषणम् उक्तमेव ।
दूषणान्तरमाह-अग्रहस्येति (९६-१८)। यदि रजतज्ञानकार्य रजतत्वासंसर्गाग्रहात् रजतभेदाग्रहाद्वा तदा कुत्रापि घटोऽयं पटोऽयमिति घटत्वपटत्वविशिष्टं ज्ञानं न सिध्येत् । कुतः ! घटत्वपटत्वासंसर्गाग्रहादेव घटपटादो प्रवृत्तिर्भविष्यतीत्युक्तमेव । तस्माद्भेदाग्रहोऽसंसर्गाग्रहो वा व्यवहारस्य प्रवृत्तेर्वा न नियामकः, किन्तु विशिष्ट ज्ञानमेव शुक्तिविशेष्यकं र जतत्वप्रकारकं रजतार्थिप्रवृत्तिनिमित्तम् अन्यथाख्यातिरूपं सिध्यतीति ।
पुनः शङ्कते-नन्विति (९६-१९) । कीदृशो भेदाग्रहः कीदृशोऽसंसर्गाग्रहो वा प्रवृत्ती व्यवहारे वा नियामक इति वा विशेषनिष्टङ्कितेन किमित्यर्थः । तर्हि किमित्यत आह-यदेवेति (९६-१९)। तथा च नैयायिकानां यादृशी भ्रमसामग्री सेवास्माकं प्राभाकराणां प्रवृत्तिसामग्री । नैयायि कमते यो हि भ्रमनिमित्तं भेदाग्रहः स एवास्माकं प्रवृत्तिनिमित्तम् । अन्यथेति (९६-२०) । यदि भेदाग्रहात् निवृत्यापादनं क्रियते तदानी भ्रमात् पूर्व तव मतेऽस्मन्मते एकैव सामग्री तया सामग्रया तव भ्रमलक्षणं ज्ञानम् अस्माकं तयैव सामग्रया प्रवृत्तिरेव जायते न स्वन्तर्गडभ्रमरूपं १. रजतभेदस्या संसर्गो नाम रजतत्वम् असंसर्गो नाम अभावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org