SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २१२ न्यायसिद्धान्तदोपे पीतार्थिनः प्रवृत्ति यते, सा न स्यात्, तादृशभेदाग्रहाभावात् । सत्यरजतस्थलेऽपि या प्रवृत्तिः साऽपि न स्यात् । कुतः ? इत्यत आह-तदभावादिति (९६१२) । पुरोवर्तिनिष्ठेन आरोग्यसादृश्येन स्मृतं यदारोप्यं रजतं तस्य भेदाग्रहाभावादित्यथैः । अत्राशङ्कते-न चेति (९६-१२) । तथा च तत्रानुभूयमानारोपस्थले यत्र निकटस्थं रजतमनुभय यत्रारजते रजतम् आरोप्यते तत्र रजतभेदाग्रहो न प्रवर्तकः, किन्तु अरजतभेदग्रह एव प्रवर्तकः । अत्राशङ्कते -न चेति (९६-१३) तथा च अरजते अरजतभेदो नास्ति, अरजतभेदस्य ग्रहेऽन्यथाख्यातिः स्यादित्यर्थः । समाधत्ते अरजतेति (९६-१३) । न हि अरजतभेदग्रहो ज्ञानम् उच्यते, किं तु अरजतभेदस्य असंसर्गाग्रह एव अरजतभेदग्रहपदार्थः । तथा च अरजतभेदस्यासंसर्गाग्रहात् रजतभेदग्रहाभावेऽपि रजतार्थिनोऽनुभूयमानारोपस्थले प्रवृतिः स्यादेव । __ दूषयति-सत्येति (९६-१४) यदि अरजतभेदस्यासंसर्गाग्रह एव रजतार्थिपवृत्तिनियामकस्तदा सत्यरजतस्थठे यदा प्रवत्तते तदानीं निवृत्तिरपि स्यात् । यथाऽरजतभेदासंसर्गाग्रहो वर्तते तथा रजतभेदासंसर्गाग्रहोऽपि वर्तते । एवं सति यथा प्रवर्तेत तथा निवर्तेत । अयमाशयः-यदा रजत एवं रजतत्वप्रकारकं ज्ञानं सत्यं जायते तदनन्तरं प्रवर्तते तत्राऽरजतभेदरूपस्य प्रतियोगिनो यदा उपस्थितिर्नास्ति तदानीं प्रतियोगिज्ञानाभावेन अरजतभेदाभावलक्षणस्यारजतभेदासंसर्गस्य ज्ञानं नास्तीति कृत्वा अरजतभेदासंसर्गाग्रहाद्यथा प्रवर्तते तथा यदा रजतमिति ज्ञानकाले रजतभेदलक्षणस्य प्रतियोगिनो ज्ञानं नास्ति तदानी रजतभेदाभावलक्षणस्य रजतभेदासंसर्गस्यापि ज्ञानं नास्तीति कृत्वा रजतभेदासंसर्गाग्रहो वर्तते इति कृत्वा निवृत्तिरपि स्यात् । कुतः ? अरजतभेदलक्षणस्य प्रतियोगिनो यथोपस्थितिर्नास्ति तदा अरजतभेदासंसर्गाग्रहो वर्त्तते एवं रजतभेदासंसर्गाग्रहोऽपि वर्तते । रजतभेदलक्षणस्य प्रतियोगिनो यदोपस्थिति स्ति तदा तादृशभेदासंसर्गाग्रहोऽपि नास्ति । इति युक्तं प्रवृत्तिवत् निवृत्त्यापादनम् । दूषणान्तरमाह-शुक्ताविति (९६-१५) यथा सत्यरजतस्थले युगपत् प्रवृत्तिनिवृत्ती स्यातां तथा असत्यस्थळेऽपि युगपत् प्रवृत्तिनिवृत्ती स्याताम् इत्यर्थः । यथा अरजतभेदस्यासंसर्गाग्रहात् प्रवृत्तिस्तथा रजतभेदस्यासंसर्गाग्रहान्निवृत्तिरपि स्यादित्यर्थः । अत्राशङ्कते-न चेति (९६-१६) । यदा शुक्को रजतार्थी प्रवर्तते १. रजतत्वाभावाग्रहात् । २. भेदाभावस्य । ३. अरजतभेदाऽसंसर्गाग्रहो नाम अरजतत्वाभावाग्रहः तस्मान्निवृत्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy