________________
अन्यथाख्यातिवादटिप्पनम् ।
२११ इष्टानिष्टयोः स्वातन्त्र्येणोपस्थित्यभावात् । न शुक्तिरित्यनेन शुक्तरेभावविशेषणतया उपस्थितत्वात् न रजतमित्यत्र रजतस्यापि अभावविशेषणतयोपस्थितत्वात् तथा च. स्वातन्त्र्येणोपस्थितेरभावात् ।
दूषणान्तरमाह-किञ्चेति (९६-९)। रजतरङ्गयोः इमे रङ्गरजते इति ज्ञानात् रङ्गे प्रवर्त्तते रजते च निवर्तते । तन्न स्यात् । किन्तु रजते प्रवर्तेत रङ्गे च निवर्तेत । कुतः ! रङ्गरजते इति ज्ञाने रङ्गस्यापि स्वातन्त्र्येणोपस्थितत्वाद्र जतस्यापि स्वातन्त्र्येणोपस्थितत्वात् तयोर्भेदाग्रहस्तिष्ठत्येव भेदग्रहेऽन्यथाख्यातिः स्यात् । एवं च सति रङ्गरजत इति ज्ञानेन स्वतन्त्रोपस्थितस्य रङ्गस्य भेदाग्रहो रङ्गे तिष्ठति । स्वतन्त्रोपस्थितस्य रजतस्य भेदाग्रहो रजतेऽपि तिष्ठत्येव । तथा च रङ्गे निवृत्तिः स्यात् । रजते च प्रवृत्तिः स्यादित्यर्थः । किमिति (९६-१०)। रजते इष्टभेदाग्रहस्य रङ्गेऽनिष्टभेदाग्रहस्य विद्यमानत्वाधथा रङ्गे प्रवर्तते तद्वन्निवत, एवं यथा रजते निवर्तते तथा प्रवर्त्ततेति एकै कस्मिन् युगपत्प्रवृत्तिनिवृत्ती स्यातामित्यर्थः ।
अत्राशङ्कते-न चेति (९६-१०) तथा च यस्मिन् पुरोवर्तिनि यो विद्यमानो धर्मः चाकचिक्यादिः तेन स्मारितं यदिष्टं रजतादि तस्य तादृशधर्माश्रये पुरोवर्तिनि यो भेदाग्रहः स प्रवर्तकः । एवं पुरोवर्तिनि विद्यमानो यो मालिन्यादिधर्मस्तेन स्मारितं यदनिष्टं तस्य तादृशमालिन्याश्रये पुरोवर्त्तिनि यो भेदाग्रहः स निवर्तको भवति । मालिन्याश्रये प्रकृते च रङ्गे प्रवृत्तिरेव जायते, न निवृत्तिः । कुतः ? रणनिष्ठेन चाकचिक्येन स्मृतस्येष्टस्य रजतस्य रङ्ग एव भेदाग्रहो वर्तते इतिकृत्वा रड्ने प्रवृत्तिः । एवं रजतनिष्ठेन मालिन्येनोपस्थापितस्य रङ्गस्यानिष्टस्य भेदाग्रहो रजत एव वर्त्तते इतिकृत्वा तत्र निवृत्तिरेव, न तु प्रवृत्तिरित्यर्थः । सादृश्येनेति (९६११) रङ्गनिष्ठं यच्चाकचिक्यं तद्रजत तमानधर्मो भवतीतिकृत्वा रजतसादृश्यम् । तत्रेति (९६-११) तादृशप्सादृश्याश्रये । तभेदाग्रहस्येति (२,६-११) यस्य सादृश्यं तद्भेदाग्रहस्येत्यर्थः ।।
समाधत्त-अनुभूयेति (९६-११) तथा च पुरोवर्तिनिष्ठो यः आरोग्यसाधारणो धर्मस्तदर्शनेन यत् स्मारितं यदिष्टमथ चानिष्टं तयोर्भेदाग्रहो यथाक्रमेण प्रवतको निवर्तकश्च तर्हि अनुभूयमानारोपस्थले प्रवृत्तिर्न स्यात् । कुतः ? तत्रानुभूयमानारोपस्थले पित्तद्रव्यगतं पित्तमनुभूय नयनावरणं पीताम्बरस्थं पीतं रूपमनुभूय शङ्खादावारोप्यते, तत्र पीतरूपं न शङ्खनिष्ठं न वा तेन पतरूपेण पीतं रूपं स्मर्यते । तथा च अनुभूयमानारोपस्थले शङ्खो न पीतः किन्तु श्वेतः इति मानसज्ञानविरहदशायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org