________________
२१८
न्यायसिद्धान्तदीपे यदि स्वरूपलक्षणभेदाग्रहात् प्रवृत्तिस्तदा शुक्तिशकले इदं रजतमिति ज्ञानात् प्रवृत्तिनै स्यात् । यतः रजतभेदो नाम शुक्तिस्वरूपं, तच्च इदंत्वेन रूपेण गृहोतमेव तत्र विसंवादिप्रवृत्तिस्थले भेदग्रह एवं वर्तते, प्रवृत्तिने स्यात् । वैधर्म्य लक्षणो भेद इति द्वितीय पक्षं निरस्यति-नापोति (९७-१९)। विसंवादिप्रवृत्तिस्थले रजतवैवयं शुक्तिवादिकं तस्य योऽग्रहः सोऽपि किं स्वरूपेण वा वैधर्म्यत्वेन वेति विकल्प्य दूषयति-किं स्वरूपेणेति (९७-२०)। रजतवैधर्म्यस्य शुक्तित्वस्य केनापि रूपेणाग्रह इत्यर्थः । वैधर्म्यत्वेनेति (९७-२०)। रजतवैधHत्वं नाम शुक्तित्वं तेन रूपेण शुक्तित्वस्याग्रहो वा । आद्यं दूषयति-वस्तुगत्येति (९७-२०)। तथा च शुक्तित्वस्य रजतवैधर्म्यस्य प्रमेयत्वादिना रूपेण ग्रहेऽपि या इदं रजतमितिज्ञानात् प्रवृत्तिर्जायते, सा न स्यात् । कुतः ? रजतवैधर्म्यस्य शुक्तित्वादेर्भेदस्य गृहीतत्वात् । तथा च प्रवृत्तिर्न स्यात् । द्वितीयं निराकरोतिवैधर्म्यत्वस्येति(९७-२१) । वैधर्म्य नाम शुक्तित्वं तच्च शुक्तिवृत्तित्वे सति शुक्तित्वात्यन्ताभाववदवृत्तित्वम् । तच्च त्वया प्राभाकरेण नाङ्गीकृतमित्याहअत्यन्ताभावस्येति (९७-२२) । अत्यन्ताभावोऽपि स्वरूपात अधिकरणस्वरूपात् अतिरिक्तो नाङ्गीक्रियते ।
ननु शुक्तित्वादेर्वैधर्म्यस्य शुक्तित्वांशे किञ्चिद्धर्माप्रकारक एवम्भूतो यः शुक्तित्वस्य ग्रहः इयं शुक्तिरिति अनेन रूपेण स एव भेदग्रहः रजतप्रवृत्तौ प्रतिबन्धकः। तस्याग्रह एव भेदाग्रहः रजतप्रवृत्तौ कारणमित्यस्वर सादाह-किञ्चेति (९७-२३) । येन शुक्तित्वं रजतत्वं विरुद्धं न ज्ञातं तस्य शुक्तित्वग्रहेऽपि इयं शक्तिः रजतमिति ज्ञानादपि रजतार्थिनः प्रवृत्तिर्जायत एव । तदग्रहादिति (९७२३) । येन बालेन शुक्तित्वं रजतत्वं विरुद्धमिति न ज्ञातं तत्र रजतार्थिप्रवृत्तिस्थले शुक्तित्वस्य ग्रहादित्यर्थः ।
___ ननु यो धर्मो यदवृत्तित्वेन येन ज्ञातः तस्य तत्प्रवृत्तौ तादृशधर्मग्रह एव भेदग्रहः तादृशप्रवृत्तो प्रतिबन्धकः । तदग्रह एव भेदाग्रहः प्रवृत्तौ कारणम् । एवं सति येन पुरुषेण शुक्तित्वरूपो धर्मः रजतावृत्तित्वेन ज्ञातः तस्य पुरुषस्य रजतप्रवृत्तौ शुक्तित्वग्रह एव भेदग्रहः, तदग्रह एव भेदाग्रहः प्रवृत्तौ कारणम् । शुक्तित्वाग्रह एव भेदाग्रहः प्रवृत्तौ कारणमित्यत आह-तदीयत्वेनेति (९७-२३) यो धर्मो येन ज्ञात इति विशेषणे प्रवृत्तिमात्रं प्रति अनुगतकारणाभावात् अन
१ ज्ञानाभावात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org