________________
१७६
न्यायसिद्धान्तदीपे
तत्र शक्यतावच्छेदकं द्रव्यत्वं न सम्भवति, कुतः ? घटपदाशक्य पटादिवृत्तित्वात् तद्वत् । लिङ्वाच्यं यदपूर्वं तत्र शक्यतावच्छेदको धर्मः कार्यत्वं न सम्भवति लिङ्पदाशक्यघटादिवृत्तित्वात् ।
ननु अशक्यवृत्तिरपि धर्मः शक्यतावच्छेदको भवतु इत्यत आह- अन्यथेति (८८ - ११) । तथा च घटपदशक्यतावच्छेदकं घटत्वे न स्यात् किन्तु सामान्यधर्मः प्रमेयत्वमेव स्यात् । द्वितीयं दूषयति- नेतर (८८ - १२) इति । घटादीति (८८१२) | क्रियातिरिक्तकार्यत्वमपि न लिङ्पदशक्यतावच्छेदको धर्मः कुतः ? लिङ्पदाशक्यघटादिवृत्तित्वात् । क्रियातिरिक्तकार्यत्वं घटेऽपि वर्त्तते । तृतीयं स्थिरकार्यत्वेनेति पक्षं दूषयति-तत्वादेवेति (८८ - १३) । शक्याशक्यघटादिसाधारणत्वात् । अपूर्वत्वेनेति पक्षं दूषयति- नोपान्त्य ( ८८ - १३ ) इति । यद्यपि अपूर्वत्वं लिङ्पदशक्यं यदपूर्वं तन्मात्रवृत्ति भवति न तु लिङ्पदाशक्य घटादिवृत्ति तथापि तदपूर्वत्वं प्रथममुपस्थितमनुपस्थितं वा । आथे आह- उपस्थितावपि ( ८८ - १३) । अन्वयबोधात् यदि पूर्वमुपस्थितमपूर्वं तदा अपूर्वत्वव्याघातः, कुतः ? साधनत्वान्वयबोधानन्तरं कल्प्यं हि अपूर्वं तच्चेत् पूर्वमुपस्थितं तदा तस्य कल्प्यत्वाभावेन अपूर्वत्वव्याघातः । अन्त्ये यदि अपूर्वत्वमुपस्थितं नास्ति तदा केन रूपेण लिडादिपदशक्तिग्रहः स्यात् । चरमं दूषयति-अनिर्वचनादिति (८८ - १४) । स्थिरेति ( ८८ - १५) | लिङ्पदस्य कार्यत्वेन रूपेण कार्य एव घटादिसाधारणी शक्तिः । तया शक्त्या कार्यत्वेन रूपेण पदार्थस्मरणं भवति । यथा गोपदेन सकलमेव गोसाधारण पदार्थस्मरणं भवति । वाक्यार्थबोधे तु अपूर्वं यथा गामानयेत्यत्र अपूर्वो गौरुपतिष्ठति तथाच वाक्यार्थबोधकाले कार्यत्वं विहाय अपूर्वमवगमयति लिङ्पदम् । यथा शब्दाश्रयत्वेन आकाशपदशक्तिग्रहे पदार्थस्मरणकाले शब्दाश्रयत्वेनैवोपस्थितिः, वाक्यार्थबोधकाले तु शब्दाश्रयत्वं विहाय निष्प्रकारिका आकाशस्योपस्थितिस्तद्वदेवेत्यर्थः । एतदेवाह - लिङ्पदमिति (८८ - १६) यजेतिपदम् । तर्केति (८८ - १६) । अस्थिरा क्रिया कालान्तरभावि स्वर्गानिका इति तर्कसहायेन अपूर्वं बोधयति ।
अत्र शङ्कते - न चेति ( ८८ - १६) । यदि लिङ्प्रत्ययेन तर्कबलादपूर्वम् उपस्थाप्यते तर्हि न कल भक्षयेदित्यादौ कलञ्जभक्षणाभावविषयक कार्यमित्यत्र नित्यनिषेधः । अपूर्वं च तयोर्लाभो न स्यात्, कुत: ? कलञ्जभक्षणाभावस्य विहितक्रियार्थाभावात् । किन्तु न कलजं भक्षयेदित्यत्र वेदोक्तनिषेधोऽस्ति, न तु विधिः । अत्र कलञ्जभक्षणाभावस्थले निषेधजन्यम् अपूर्वं चेन्नास्ति तदा नित्यनिषेधोऽपि न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org