________________
अपूर्ववादटिप्पनम् ।
१७५ वृणोति । काम्यादन्यदि-(८८-२)ति । स्वर्गसुम्बपरम्परायां हि काम्याव्यवहितं पूर्व पूर्वमपि काम्यं भवत्येव तत्रैव कर्त्तव्यत्वान्वयो भविष्यतीति कथमपूर्वे कर्तव्यत्वान्वय इत्यत उक्त काम्यादन्यदिति (८८-२)
- तत् काम्ये काम्यादन्यत्तद्वारानुपस्थित्यादिपरम्परासाधनत्वबोधो भविष्यतीत्याशङ्कते न चेति (८८-३)। तथाच साक्षात् साधनताबाधेऽपि परम्पराघटकानुपस्थित्याऽपि परम्पगसाधनत्वबोधो भवतीत्यर्थः । कथमन्यथा सस्यार्थिनः कृषीवलस्य परम्पराघटकानुपस्थित्यापि सस्यपरम्परासाधने कर्षणे प्रवृत्तिः ! कर्षणस्य सस्यपरम्परासाधनत्वात् । नाऽयं नियम(८८-१) इति । साक्षात् साधननाबाधे यत् साधनवं तत्परम्पराघटकोपस्थित्यैवान्वितं भवतीत्ययं न नियमः सस्यार्थिनः कर्षकस्य परम्परासाधने कर्षणे साधनत्वबोधानन्तरं कर्षणे प्रवृत्तिदर्शनात् । दूषयतितत्राऽपीति ८८-४)साक्षादसाधनस्य यत् साधनत्वं परम्पराघटकानुपस्थित्वाऽपि अन्वितं भवतीति कुत्राऽपि न दृष्टम् । कुतः ? सस्यार्थिनः कर्षकस्य या कर्षणे प्रवृत्तिः साऽपि परम्परया लोहरश्मिबलीवर्दव्यापारपरम्परामवगम्यैव कर्षणे साधनत्वबोधः, न तु. व्यापारपरम्परामनवगम्य । एतदेवाह-नान्यथेति (८८-५) । व्या. पारपरम्परामनवगम्येत्यर्थः । विपक्षे बाधकमाह-तथात्वेति (८८-५)। व्यापारपम्परामनवगम्य साधनत्वबोधे इत्यर्थः । अत्रानुकूलतर्कमाह -साक्षादिति(८८-६) । एकविशेषबाधे यः सामान्यप्रत्ययः सोऽपरविशेषमादायैव भवतीति नियमात् । अत्र दृष्टान्तमाह-अत एवेति(८८-६)। घटसामान्यस्य द्वौ विशेषौ मछिद्रत्वमछिद्रत्वं च । सछिद्रस्य घटविशेषस्य जलाहरणान्वयबाधात् । अपरो विशेषः छिदेत रत्वं तमादायैव जलाहरणान्वयबोध इत्यर्थः । तस्मात् कामी पुरुषः काम्याव्यवहितसाधनमपूर्वमेवादी कार्यत्वेन अवैति । . अत्र शङ्कते-ननिति(८८-९) । विधिप्रत्ययस्य लिअ ययस्यापूर्वे वाच्ये केन रूपेण शक्तिः । क्रियेति (८८-९)। लिङ्मत्व येन यत् कार्यमुपस्थितं तदपि चेत् क्रिया साधारणतया आशुतरविनाशी(शि) स्यात् तदा आशुतरविनाशित्वात् क्रिया जन्यत्वं फले नास्ति । तथा यल्लिप्रत्ययवः न्यं क्रिया साधारणम् आशुतरविनाशि परम्प घटकं तद्द्वाराऽपि क्रियाजन्यत्वं फले न सम्भवत्येवेति स दोषस्तदवस्थ एव ।
दोषान्तरमाह-शक्येति(८८-११)। लिङ्प्रत्ययस्य यदि अपूर्व वाच्यं तत्र शक्यतावच्छेदको धर्मः कार्यत्वं तच्च न सम्भवति । यथा घटपदस्य वाच्यो घटः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org