________________
अपूर्ववाद टिप्पनम् ।
1
उपोदघातसङ्गत्याह- इष्टसाधनताज्ञानं तदा स्यात् यदीष्टसाधनस्य परम्पराघटकमपूर्वं लिङ्गादिवाच्यं स्यात् इत्युपोदघातसङ्गत्या अपूर्वस्य लिङादिवाभ्यत्वाभा वेऽपि यागे इष्टसाधनतान्वये योग्यतासत्त्वात् इष्टसाधनत्वबोधः स्यादेवेति व्यवस्थापयितुं परमतमुपन्यस्यति । नन्विति ( ८८ - १) । स्वर्गोपायत्वेनेति (८८ - १) स्वते । कार्यत्वेनेति (८८ - १ ) परमते । क्रियाया (८८ - १) यागादिक्रियाया अन्वय (८८ - १) इति न युक्तम् । अत्र हेतुमाह - तत्रेति ( ८८ - २ ) । षड्विधा बोधाः स्वर्गकामस्य शास्त्रे निरूपितास्तद्यथा - एकः कर्तृत्वेन बोधः १, एकः अधिकारित्वेन बोधः २, एको नियोज्यत्वेन बोधः ३, एकः स्वर्गकामत्वेन एकस्तावत्फलभागित्वेन ५, एको नियन्तृत्वेन ६ । एते प्राभाकराणां मते सन्ति ते शास्त्रान्तराद् ज्ञेयाः । षण्णां मध्ये एकं नियोज्यत्वमादाय मम नियोज्यस्य यागः कार्य इति प्राभाकरमते । नियोज्यस्य मम यागः स्वर्गसाधनम् इति नैयायिकमते । तथा च नियोज्यत्वरूपेण नियोज्यस्य यागः कार्य इति बोधः, याग इष्टसाधनमिति वा बोधः । द्वयमपि न सम्भवति कर्त्तरि नियोज्यत्वान्वययोग्यताविरहात् । नियोज्यत्वं नाम यागसाध्यफलभोगित्वम् । यागसाध्यता तु फले न सम्भवति । यागस्य आशुतरविनाशित्वेन कालान्तरभाविफलस्य यागसाध्यत्वाभावात् परम्पराघटकानुपस्थित्या परम्परयाऽपि यागसाध्यत्वाभावात् फलस्य । एवं साक्षात्परम्परया साध्यत्वबाधे तदन्वयार्थे परम्पराघटकं लिङादिवाच्यम् अवश्यं किञ्चित् स्वीकर्त्तव्यम् | अन्यथा अधिकारिणो नियोज्यत्वरूपेण यागक्रियायां कर्त्तव्यत्वावगम एव न भवति । एतदेवाह नियोज्येति (८८-२) | नियोज्यत्वरूपेणेत्यर्थः ।
नियोज्यस्य यागे कर्त्तव्यतावगमो नास्ति । कुतः ? यागसाध्यत्वं साक्षात् परम्परया बाधितम् । तर्हि नियोज्यत्वान्वयः कथमधिकारिणि इत्याह- कामीति (८८-२) । तथाच प्रथमतः कामी काम्यं यत् फलं तस्याव्यवहितं यत् साधनं तदेव कर्त्तव्यत्वेनादौ जानाति मम यागविषयकं कार्यमित्याकारकम् । एवं सति यविषयस्य कार्यस्यापूर्वस्योपस्थितौ तद्द्वारा फले यागसाध्यत्वेऽवगते पश्चात् अधिकारिणि नियोज्यत्वान्वयबोधः । अनेन प्रकारेण अधिकारिणि नियोज्यत्वेऽवगते पश्चान्नियोज्यस्य मम यागः कार्य इष्टसाधनं वा इत्यन्वयबोधो भविष्यति । तच्च परम्पराघटकम् अपूर्वं लिङादिवाच्यम् । अन्यथा तस्याऽपूर्वस्यानुपस्थितेः । एतदेव वि
१. भोक्तृत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org