________________
१७७
अपूर्ववादटिप्पनम् । स्यात् । द्वयोरलाभप्रसङ्गः स्यात् । समाधत्ते-एकत्रेति (८८-१७) । वैदिकलिङः स्वर्गकामो यजेतेत्यत्र अपूर्ववाचकत्वस्थितौ निषेधस्थलेऽपि वैदिकलिङोऽपूर्ववाचकत्वं कल्प्यते । यतः एकत्र निर्णीतं तदेवापरत्र कल्प्यते । यथा मन्त्राणां दृष्ट कार्यसम्पादकत्वेन प्रामाण्ये सिद्धेऽन्यत्रापि अदृष्टार्थबोधकस्य प्रामाण्यम् । यथा मन्त्रायुवेदस्थले वेदस्य प्रामाण्ये सिद्धे अपरस्यापि वेदस्य प्रामाण्यम् । तद्वदत्र विहितस्थले लिङः अपूर्ववाचकत्वे स्थिते निषेधस्थलेऽपि लिङोऽपूर्ववाचकत्वं कल्प्यते इत्युभयत्र विहितनिषेधस्थले लिङोऽपूर्ववाचकत्वमिति स्थिते शङ्कते-न चैवमिति (८८-१७) । यदि आशुतरविनाशिक्रियायाः कालान्तरभाविफले जनयितव्ये मध्ये चेदपूर्व तर्हि पुष्टिकामो घृतं पिबेदित्यादौ घृतपानस्याशुतरविनाशित्वात् कालान्तरभाविपुष्टिं प्रति साक्षाजनकत्वासम्भवात् परम्परासाधनत्वोपपत्तयेऽपूर्वकल्पनापत्तिरित्यर्थः । ।
समाधत्ते-वैदिकेति (८८-१८)। न हि सर्वत्र आशुतरविनाशिक्रियासमभिव्याहृतलिङोऽपूर्ववाचकत्वमित्युच्यते कि त त्यत आह-
लिवेनेति (८८-१८)। वैदिकलिङ्वेनैवाऽपूर्ववाचकत्वं कल्प्यते न तु लौकिकालौकिकसाधारणाऽऽशुतरविनाशिक्रियासमभिव्याहृतलिङ्त्वमात्रेणैव लिडोऽपूर्ववाचकत्वम् । कथं तर्हि घृतं पिबेदित्यादी घृतपानस्य पुष्टिसाधनत्वान्वयबोध इति चेत् । न, लोकसिद्धमथवा वैदिकशास्त्रादवगतं वा धातुसाम्यं परिज्ञातं घृतपाने, तदा धातुसाम्यद्वारा पुष्टिर्भवति । तहिं लौकिकस्थले दृष्टधातुसाम्यादिकमेव आशुतर वनाशिक्रियाप्तमभिव्याहृतलिडः वाच्यमस्तु इत्याशयेनाह-यद्वेति (८८-१८) । तत्र वैदिकस्थलेऽपूर्ववा चकत्वेन विना गतिर्नास्तीतिकृत्वा लिङोऽपूर्ववाचकत्वम् । लोकस्थले तु अपूर्वव्यतिरेकेणापि धातुसाम्यद्वारा फलसाधनत्वोपपत्तो स एव लिङर्थ इत्यर्थः । क्रियामात्रस्येति (८८-१९)। क्रियामात्रं परम्परासाधनत्वोपपादकम् । न च कार्यमात्रव्यापारेण पुष्टिसाधनत्वोपपत्तिरित्यत आहेतद्व्यापारस्येति (८८-१९) । तस्याः घृतपानादिरूपायाः क्रियाया यो व्यापारो धातुसाम्यादिस्तस्य लिङर्थत्वात् ।
____ अत्र शङ्कते-न चेति (८८-१९) । यदि लिङः वैदिकस्थलेऽपूर्वे शक्तिः लौकिकस्थले धातुसाम्पादौ शक्तिः तदा शक्यतावच्छेदकभेदात् लिङो नानार्थत्वापत्तिः । समाधत्ते-लोक इति (८८-२०) । यथा सर्वेषामाख्यातानां कृतौ शक्तिः रथो गच्छतीत्यत्र गमनानुकूलकृतेरभावात् गमनानुकूलव्यापारे लक्षणा तथा लिङोsपूर्व एव शक्तिः । यत्र लौकिकस्थले पूर्व नास्ति तत्र लौकिकलिङः परम्परासाधनत्वोपपादकव्यापारमात्रे लक्षणेति न नानार्थत्वं लिङ्गः ।
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org