________________
१२६
न्यायसिद्धान्तदीपे निर्गतश्चैत्रो मैत्रेण बहिःस्थितेन पृच्छयते तत्र विष्णुमित्र आसीत् । स च पूर्व प्रतियोगिज्ञानाभावात् अनुपलब्धविष्णुमित्राभावः तदा प्रतियोगिज्ञानं सहकार्यासाद्य उपलब्धविष्णुमित्राभावो वदति नासीदिति । तदेतद्देवकुलासन्निकर्षेऽपि' तस्याभावावधारणं जायमानं नेन्द्रियकरणकमसनिकृष्टविशेष्यकत्वात् । नानुमानजं स्वरूपसदनुपलब्धिजन्यत्वात् लिङ्गान्तरस्याभावात् । न स्मरणम् अननुभूतगोचरत्वात् । तथा चानुपलब्धिरेव कारण मिति ।
अत्रोच्यते । अनुपलब्धेरभावप्रतीतौ कारणतैव नास्ति, किं पुनः करणता । तथा ह्यनुपलब्धेः कारणत्वमन्वयव्यतिरेकाभ्यां वाच्यम् । न चानुपलब्धिव्यतिरेकप्रयुक्तोऽभावोपलब्धिविरहः कचिदपि सिद्धः । इदं रजतमिति भ्रमस्थले सिद्ध इति चेन्न । दोरस्यैव तत्र प्रतिबन्धकत्वात् । अन्यथा रजतारोपात् पूर्व शुक्तौ रजतानुपलम्भस्य विद्यमानत्वात् उपलम्भदशायामभावोपलम्भ एव स्यात् । तत्रारोपसामय्येव प्रतिबन्धिका कार्यादर्शनादिति चेत, तद्वरं तत्सामग्येकदेशस्य दोषस्यैव प्रतिबन्धककल्पना । अन्यथा भावोपलम्भे' अभावानुपलब्धिरपि कारणं स्यात् ।
भवतु वा अनुपलब्धिरभावोपलब्धौ कारणं, करणत्वं तु कुतः। करणं हि कारकविशेषः, स च व्यापारनिर्वाह्यः । न चानुपलब्धेरभावोपलब्धिजनने पापारमुपलभामहे । किंचाधिकरणग्रहोपक्षीणं चेत् हीन्द्रियं तथात्वेनोपस्थिते पीतघटे लोहितरूपाभावः किमिति नोपलभ्यते । प्रतियोगिग्राहकेन्द्रियेणा धिकरणोपस्थितिः कारणमिति चेन्न । तत्र वायौ रूपामावग्रहप्रसङ्गात् ।
किञ्च अंभावोपलब्धौ कि प्रतियोगिग्राहकेन्द्रियजन्याधिकरणोपस्थितिः कारणं प्रतियोगिग्राहकमिन्द्रियं वा इति विमर्शने" जायमाने प्रतियोगिग्राहकेन्द्रियस्यैव कारणता युक्ता लाघवात् । अन्यथा दण्डयुक्तस्य चक्रस्य
१. I. O. reads देवकुलेऽसन्निकृष्टेऽपि । २.-२. This portion is missing in P। ३. P+I. O. read आरोपदशायाम् । ४. P reads आरोपकार्यादर्शनात् । ५. I. O. misses भावोपलम्भे । ६. I. O.+MI read कारणविशेषः । ७. P reads (उ)पक्षीणमिन्द्रियम् । ८. P+I.O. read चोपस्थिते। .. P reads तदा, IO. reads तव । १०.-१०. This portion is missing in P। ११. I.O.reads प्रतियोगिप्राहकमिन्द्रियमभावोपलब्धी कारणमस्तु तज्जनिताधिकरणोपस्थितिर्वेति विमझें ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org