________________
अभाववादः।
१२५ सामयिकपरत्वासमानकालीनत्वशून्यतादृक्पदार्थावधिकापरत्वासमानकालीनासदातनाभावत्वं प्रागभावत्वम् । अदृष्टानाधारकालानाधाराभावत्वं प्रागभावत्वमिति कश्चित् । वैपरीत्येन ध्वंसनिर्वचनमिति सर्व सुस्थम् ।
अभावपदप्रवृत्तिनिमित्तं चिन्त्यते । भावाभावव्यवहतिस्तावत्सकलजनप्रसिद्धा । सा च परस्परविलक्षणधर्मनियम्या स च विलक्षणो धर्मों भावाऽभावयोः कल्प्यमानो भावरूपो वाऽभावरूपो वा, क्वचिद्भावरूपः क्वचिदभावरूपः, क्वचिद्भावाभावरूपो वा । तत्राद्ययोर्गौरवापत्तेः तृतीयः परिशिष्यते। सोऽपि भावरूपो नाभावे कल्पते सप्तमभावकल्पनापत्तेः । तथाच भावे भावरूपः अभावे वाऽभावरूप इति वस्तुगतिः। स च धर्मों जातिरूपः परिशेषात् । सैव सत्तेति गीयते। सा च यद्यपि द्रव्यगुणकर्मस्वेव समवेता तथापि स्वरूपसम्बन्धेन सामान्यादिष्वपि वर्तते तथैव कल्पनात् । तदत्यन्ताभावस्त्वभावपदप्रवृत्तिनिमित्तम् ।
नन्वेवं सति सत्तातदत्यन्ताभावयोरेव कथं भावाभावपदप्रवृत्तिः । प्रमेयत्ववत् न स्वात्मनि तयोवृत्तेः तथैव कल्पनात् । लक्षणान्तरकल्पनेऽप्यस्य दोषस्य समाधेयत्वात् । अथवा यथा गोपदं गोत्वे वर्त्तते तथाऽत्रापीति बोद्धव्यम् । सत्तासम्बन्धित्वं भावत्वं, तदत्यन्ताभावसम्बन्धित्वम् अभावत्वमित्येषा दिक । सोऽयमतिगहनोऽभावविवेचनपन्था इति अवहितेन" भवितव्यमिति । अभावनिरूपणम् ।।
सोऽयमभावोऽनुपलब्धिरूपप्रमाणान्तरगम्य इति तौतानिताः । तेषामयमाशयः। अनुपलब्धिस्तावदभावोपलब्धौ कारणमित्युभयवादिसिद्धम् । तथा च चक्षुरादीनामपि तत्र सामर्थ्य कल्पने" किं बीजम् । घटादिप्रतीताविवानन्यथासिद्धिरिति चेन्न । अधिकरणग्रहे तदन्यथासिद्धेः अनुमिताविव पक्षोपस्थितौ इतरथा अत्रापीन्द्रियं करणं स्यात्, प्रमाणान्तरोपस्थिते पक्षेऽनुमितिदर्शनात् । नैवमिति चेत्, प्रकृतेऽपि समानम् । तथाहि देवकुला
१. P reads तत्त्वम् । २. P+I. O. read समञ्जसम् । ३. I.O. misses सप्तमभावकल्पनापत्तेः । ४. I. O. reads इत्यभिधीयते । ५. P reads विकल्पमात् ।.. P reads भावाभाववृत्तिः । ७. P+M1 read सामान्येऽपि । ८. P drops दोषस्य । ९. P misses .. सम्बन्धित्वम् । १०. P reads हितेन, I.O. reads अवहिततया । ११. M, reads कारणत्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org