________________
૨૨
न्यायसिद्धान्तदीपे प्रत्येकरूपप्रतियोगिकाभावानामेवे सामान्यतस्तन्निरासोपंपत्तावतिरिक्तकल्पनस्य निर्बीजत्वात् । कथमन्यथा पृथिव्यादिरूपसमूहःप्रत्येक मेलकेन च वायौ नास्ति इत्यवधार्य वायौ रूपं नवेति संदिग्धे । किञ्च । सर्वमेव रूपं वायौ नास्तीति शब्दज्ञानाद वायौ रूपसंशयनिवृत्तिर्न स्यात् । मिलिताभावस्यानिश्चयात् । ततो न निवर्त्तत एवं संशय इति चेन्न । अनुभव विरोधात् । मिलिताभावोऽप्यग्रे निश्चीयत इति चेन्न । प्रमाणाभावात् । एतावदेव रूपमिति निश्चयस्तत्र प्रतिबन्धक इति चेत्, तदेतत् प्रकृतेऽपि समानमित्यलमतिविस्तरेण ।
अन्ये तु संसर्गेण यस्य प्रतियोगितावच्छिद्यते स संसर्गाभावस्तद्विपरीतप्रतियोगिताकस्तादात्म्याभाव इत्याहुः।
यत् पुनरुक्तं प्रलयसमयोत्पन्नविनष्टपरमाणुक्रियाप्रागभावध्वंसाव्यापकत्वं प्रागभावध्वंसलक्षणयोस्तदपि मन्दम् । परत्वापरत्वे प्रति हि समवायिकारणत्वं गुणकर्मणोः नास्ति, तत्र द्रव्यत्वस्य तन्त्रत्वात् । अवधित्वे तु तयोन विरोधः।
ननु तथापि किं प्रागभावत्वं प्रध्वंसत्वं वा । ननूक्तमेव प्रतियोग्यव वधिकसामयिकपरत्वसमानकालीनाभावत्वम् प्रागभावत्वम् । एवम्भूतपरत्वसमानकालीनाभावत्वं च ध्वंसत्वमिति । मैवम् । प्रथमोत्पन्नपदार्थप्रागभावाव्यापनात् । तदवधिकपरत्वासिद्धेः। प्रतियोगिविनाशोत्तरोत्पन्नपदार्थतदवधिकपरत्वासमानकाळीनतया ध्वंसस्याप्युपपत्तेः । अत एवं प्रतियोग्यवधिकयावत्परत्वासमानकालाभावत्वं ध्वंसत्वमित्यपि निरस्तम् । प्रागभावस्यापि तादृशत्वात् । प्रतियोगिसमानकालीनसदातनसकलपदार्थावधिकसामयिकपरत्वसमानकालिकासदातनाभावत्वं प्रागभावत्वम् , तद्विपरीतं ध्वंसत्वम् इति चेन्न । साकल्यं पदार्थविशेषणं परत्वविशेषणं वा । नाद्यः, तदवधिकपरत्वासिद्धेः । नेतरः, स्वरूपासिद्धेः ।
अत्राप्यभिधीयते । प्रतियोगिसमानकालासदातनकिश्चित्पदार्थावधिक१. P reads प्रतियोगिकभाक्नया । २. I. O reads सामान्यतः संशयोपपत्तौ । ३. P misses प्रत्येक मेल केन च । ४. M+M, miss नास्तीत्यवधार्य वायौ । ५. P reads शब्दादजानतः । ६. P reads अभावविरोधात् । ७. P drops रूपम् । ८. P reads चरमोत्पन्न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org