________________
अभाववादः । स्यात्' । तत्र तद्धर्मान्योन्याभावनिबन्धनमस्तु तदधिकरणान्योन्याभावत एव वा तदत्यन्ताभावव्यवहारो विलक्षणबुद्धिसिद्धत्वात् । कथमत्यन्ताभावस्त्यज्यतामिति चेत् । आयातोऽसि मार्गेण । तथाहि 'इदमिह नास्तीति संसर्गेण प्रतियोगितावच्छिद्यते, इदमिदं न भवति इत्यत्र तादात्म्येन ।
न च तादात्म्यमसिद्धमेव एकवृत्तिधर्मस्यैवं तत्त्वात् । न च एकवृत्तितानिर्वचनेऽन्योन्याश्रयः, समानाधिकरणधर्मविरोधिधर्मासामानाधिकरण्यस्यैव तत्त्वात् । अवच्छेदकत्वं तु निरूपकताविशेष इति नाशक्यनिर्वचनम् । नार्य श्याम इत्यत्र तु बाधात् धर्मोपमङ्क्रमः। तथा च एकवृत्तिधर्ममात्रापच्छिन्नप्रतियोगिताकोऽभावोऽन्योन्याभावः, संसर्गावच्छिन्नप्रतियोगिताकः सदातनोऽभावः अत्यन्ताभाव इति किमनुपपन्नम् । नित्यत्वे नित्यत्वान्तरमभ्युपगम्यानुपपत्तिनिरसनीया । प्रमेयत्वे प्रमेयत्वस्येव वा स्ववृत्तितया सा निरसनीया । ननु गृहसंसर्गिघटभिन्नोऽयं घट इत्यत्रान्योन्याभावलक्षणाव्यापकता तदवस्थैव । न ह्येकत्रैकवृत्तिना धर्मेण प्रतियोगिताऽवच्छिद्यते किंतु संसर्गेण इति । मैवम् । एकवृत्तिरेव हि धर्मोऽत्रापि प्रतियोगितावच्छेदकः । कथमन्यथा गृहसंसर्गदशायामप्येतद्घटभिन्नोऽयं घट इति प्रतीयते। तथापि व्यासज्यवृत्तिप्रतियोगिकेऽन्योन्याभावे का गतिरिति चेन्न । तथाभूताऽन्योन्याभावे प्रमाणाभावः । अन्यथा रूपे रूपस्पशौं न स्त इति प्रतीतिबलादत्यन्ताभावोऽपि तादृशः स्यात् । सोऽपि भवत्विति चेत् । एवं प्रागभावप्रध्वंसावपि तादृशौ स्याताम् । तावपि भवतामिति चेन्न । व्यासज्यवृत्तिधर्मसमानाधिकरणप्रत्येकपर्यवसितप्रतियोगिताकाभावादेव हि तादृक्प्रतीत्युपपत्तौ किमिति स्याद्वादावलम्बनं भवतः ।
सोऽयं चतुर्विधोऽप्यभावः प्रत्येकप्रतियोगिक एव, न तु मिलितप्रतियोगिकोऽपीति ध्येयम् । ननु वायौ पृथिव्यादिनिष्ठेतत्तद्रूपप्रतियोगिकाभावनिकरनिश्चयेऽपि वायुः रूपवान् न वेति संशय एव पूर्वानिश्चितमिलितप्रतियोगिकरूपाभावे प्रमाणमन्यथा विशेषदर्शने स न स्यादिति । मैवम् ।
१. M+M, miss किमिति न स्यात् । २.-२. This is missing in I.O. । ३. MI misses सा निरसनीया । ४. Ma reads प्रमाणाभावात् । ५. I.O. reads पृथिव्यादित्रिकनिष्ठ० । ६. P resumes Text on p. 594 with मेवम् etc. The Editor does not give any note. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org