________________
१२२
न्यायसिद्धान्तदीपे
कैवल्यम् । ननूक्तमेव घटवभूतलान्यभूतलत्वमिति' उक्तं न पुनर्युक्तिमत् । तथाहि तदन्यत्वं तदन्योन्याभावत्वं स्वरूपमेव वा तदवृत्तिधर्मवत्त्वं वा अन्यद्वा । नाद्योऽनङ्गीकारात् । नेतरः, दूरादपि तस्य गृहीतत्वात् । तृतीये तु घटकुटयां प्रभातम् । न हि सघटभूतलावृत्तिभूतले भावरूपधर्ममीक्षामहे । पृथक्त्वस्याप्येकस्मिन्नभावात् । एतेन सघटभूतल बुद्धेरन्य भूतल बुद्धिर भावस्य व्यवहारिकेति निरस्तम् । अपि चावृत्तघटे भूतले अन्या भूतलबुद्धिर्भवति । न च तत्राभावव्यवहारः । भवत्येव तत्रापीति चेद्, भवतु तथापि घटदर्शनेन बाध्यते तावत् । स च बाधः विषयाविशेषे कथं स्यात् । न च तत्रापि प्रतिबन्दिर्निरस्ता । तत्र हि संस्काररूपकारणविशेषो नियामकः, प्रकृते न कारण विशेषोऽपीत्यलमतिपीडया ।
न च भवाधिकरणतावच्छेदकधर्मेणैवाभावखण्डनं गोत्वादिधर्मखण्डनप्रसङ्गात् । तथानुभूयमानत्वेन न खण्डनमिति यदि, तदा एतत् प्रकृतेऽपि समानम् । न चाभावे घटो नास्तीतिबुद्धिवद् भावेऽपि अभावबुद्धिसमर्थनम्, अभावस्य घटबिरोधित्वेनैव घटाभावार्थकत्वात् । भूतलादेस्तु घटविरोधित्वाभावात् । अस्तु वाऽभावेऽप्यभावान्तरं न चानवस्था अनुभूयमानत्वात् । एवं प्रागभावव्यवहारोऽपि न कारणविशेषोपरक्ताधिकरण निबन्धनः । तस्य घटाद्यविरोधित्वात् । एतेन घटध्वंसव्यवहारोऽपि तद्वत्तया प्रत्यभिज्ञायमानाधिकरणगोचर इति तेन नान्यथासिद्धिः । तस्मान्न सामान्यतो विशेषतश्चाभावव्यवहारोऽन्यथासिद्ध इति कथं न मेयान्तरमभावः ।
न च विभागानुपपत्तिः, घटः पटो न भवतीति विलक्षणप्रतीतेरेवान्योन्याभावत्वसिद्धेः । न च तद्धर्मात्यन्ताभावेनान्यथासिद्धिः । तत्रापि धर्मान्तराभावप्रसक्तोऽभावः कचिदपि नावतिष्ठेत । किञ्च विपरीतमेव कुतो न भवति । तथाहि अत्यन्ताभावव्यवहार एव अन्योन्याभावेन समर्थनम्, अलमत्यन्ताभावेन । नन्वेवं घटे घटाभावव्यवहारो न स्यात् । किमिति न
१. I.O. reads घटघटित भूतलान्यभूतलत्वम् । २. Preads भावस्वरूपं धर्मभूतलम् । ३. I.O. reads अभावव्यवहारिकेति । ४. P+1. O read सा च बाधा । ५. My reads न च सत्ताप्रतिबन्दिर्निस्ताराय । ६. Several folios are missing here in P. The editor notes : अतः परं मूलं नोपलब्धम् । ७. I. O. reads अभावप्रतियोगिकम् अभावान्तरम् । ८. M 1 reads धर्मान्तर प्रयुक्तोऽभावः । ९ M reads समर्प्यताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org