________________
अभाववादः।
१२५ सामयिकयावत्परत्वाश्रयासमानकालीनोभावत्वं ध्वंसत्वमिति चेन्न । गुणकर्मप्रागभावध्वंसातिव्याप्तेः तयोः परत्वाऽपरत्वप्रतियोगिकत्वाभावात् । प्रतियोगिसमानकालीनयावत्पदार्थावधिकत्वेन परत्वाऽपरत्वे विशेषणीये इति चेन्न । प्रलयसमयोत्पन्नविनष्टपरमाणुक्रियाप्रागभावध्वंसाव्यापनात् । तत्रापि ब्रह्माण्डान्तर्गतकायद्रव्यावधिकपरत्वाऽपरत्वे स्त इति चेन्न । तदा कार्यद्रव्यमात्रविरहात् । गन्धानाधारसमयानाधाराभावत्वं प्रागभावत्वमिति चेन्न । चरमगन्धनाशोत्तरसमुत्पन्नभोगप्रागभावाव्यापनात् । तत्र प्रमाणाभाव इति चेत्, न । संशयेनापि लक्षणानिर्वाहात् ।
किश्चाभावपदप्रवृत्तिनिमित्तं भावविरोधित्वमिति चेन्न । किं तत् विरोधित्वं सहानवस्थानमिति चेन्न । अन्योन्याश्रयप्रसङ्गात् । गोत्वाश्वत्वयोरपि परस्पराभावत्वप्रसङ्गात् । अन्योन्याभावस्य भावत्वप्रसङ्गाच्च ।
ननु सत्ताप्रकारकज्ञानाविषयत्वमभावत्वमिति । न ह्यभावे भ्रमरूपमपि सत्ताप्रकारकं ज्ञानमुत्पद्यते । तस्य तद्विरोधितयैवोपस्थितेरिति । मैवं, सामान्येनापि तदुपस्थितेः सम्भवात् । अन्यथाऽन्धकारे भावरूपधर्मारोपो' न स्यात् । घटाभाव इति बुद्धेरैचाक्षुषतापत्तेः। सत्तानाश्रयत्वं तदिति चेन सामान्यादेरभावत्वापत्तेः । द्रव्यादिषडन्यतमत्वं भावत्वं तद्रहितत्वमभावत्वमिति चेन्न । अन्यतमस्याभावनिरूपणीयत्वात् । तदनाकलनेऽपि भावाभावप्रतीतेरनुभवसिद्धत्वात् सर्वमिदं समाकुलम् ॥ इति ॥
___ अत्रोच्यते । घटाभाववद् भूतलमिति धीस्तावत् सकलजनप्रसिद्धा । तंत्र भूतलमेव यदि घटाभावः स्यात् , न तत्रैव तद्वत । स्वात्मनि वृत्तिविरोधात् । एवं सति भूतलं घटाभाव इति स्यान्न तु तद्वदिति । किञ्च घटे स्मर्यमाणे यत्र दूराद् भूतलस्वरूपमाकलितम् तत्र किमपरमवशिष्यते यद्ग्रहविलम्बादभावव्यवहारविलम्बः। कैवल्यग्रहविलम्बादिति चेत् किं तत
१. P reads o(अ)परत्वासमानकालीन. and ०(अ)परत्वसमानकालोन । शेषानन्त explains : अपरत्वपदेन स्वाश्रयविवक्षणात् । २. P+I. O. read °विरहात् । ३. P+I. o read अन्योन्याश्रयात् । ४. P. reads परस्पराभावापातात् अन्योन्याभाषप्रसशाच्च । ५. D. o. read भावधर्मारोपः। ६. P reads घटाभावबुद्धेः । ७. I0. adds चेत । ८. P reads तवृत्तेः आत्मनि । ९. Ma reads अभावग्रहो न भवति, P+I.O. read अभाबव्यवहारो न भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org