SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२० न्यायसिद्धान्तदीपे स्यात् । भावे वा चतुर्धेत्यनुपपन्नम् । अत्यन्ताभावभिन्ने तादात्म्याभावे मानाभावात् घटः पटो न भवतीति धीरेव मानमिति चेन्न । अस्यास्तद्धर्मात्यन्ताभावालम्बनत्वात् , अन्यथोपपन्नपार्कजरागे घटे नायं श्याम इति धीरन्योन्याभावमालम्बेत । तत्र विशेषणमात्रमेव निषिध्यते यदि तदेतत् प्रकृतेऽपि समानम् । एवं सति धर्मिनिषेधो न क्वचिदपि प्रतीयते इति चेनोच्चैर्वक्तव्यम् ।। किश्चानयोधर्म्यमपि तादात्म्यप्रतियोगिकाभावत्वसंसर्गप्रतियोगिकनित्याभावत्वेस्त इति चेन्न । तयोरेवात्यन्ताभावान्योन्याभावातिव्यापकत्वात् । तादात्म्यसंसर्गी प्रतियोगितावच्छेदको विवक्षितौ इति चेन्न, तदनिर्वचनात् । किञ्च गृहसंसर्गिघटभिन्नोऽयं घट इत्यत्रात्यन्ताभावलक्षणमतिव्यापकं स्यात् । प्रतियोग्यवृत्तिसदातनाभावत्वमन्योन्याभावस्य, प्रतियोगिवृत्त्यभावत्वमत्यन्ताभावस्य लक्षणे इति चेन्न । घटपटौ नायं घट इति व्यासज्यप्रतियोगिकाऽन्योन्याभावे नित्यत्वात्यन्ताभावे च तयोरैव्यापकत्वात् । स हि नित्यत्वात्यन्ताभावों नित्यत्वे न वर्त्तते । तदाश्रयस्यानित्यतापातात् । एवं प्रागभावप्रध्वंसाभावावपि वैधाभावान्न भिन्नौ । तथाहि किं तत्प्रागभावत्वम् ? प्रतियोगिपूर्वकालमात्रवृत्त्यभावत्वं तदिति चेन्न, अन्योन्याश्रयप्रसङ्गात् । ध्वंसप्रतियोग्यभावत्वं तदिति चेन्न । अभावध्वंसस्यानङ्गीकारात् । अङ्गीकारे वा ध्वंसस्यापि प्रागभावनिर्वचनाधीननिर्वचनतयाऽन्योन्याश्रयादेव । उत्पत्तिमदभावत्वं ध्वंसत्वमिति चेन्न । काऽसावुत्पत्तिः। आधसमयसम्बन्ध इति चेत् किमाधत्वम् । समानकालीनपदार्थप्रतियोगिकध्वंसानाधारसमयसम्बन्ध इत्युत्पत्तिरिति चेन्न । परस्पराश्रयप्रसङ्गात् । प्रतियोग्यवधिवसामयिकयावदपरत्वाश्रयासमानकालीनाभावत्वम् भागभावत्वं तदवधिक १. P+I. O. drop स्यात् । २.-२, I. O. misses a line here | ३. I. O. reads नोच्चैर्वाच्यम् ।' p. reading is misleading. शेषानन्त reads It correctly and comments उपहसन् प्रकृतम् स्मारयति । ४. P adds प्रतियोगिताविरह-। ५. I.0.+P read सदातनाभावत्वे । ६. P reads अनयोः। ७. I.O. reads न हि नित्यत्वाभावो नित्यत्वे वर्तते । ८. I. o. misses अनङगीकारात् । अङ्गीकारे वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy