________________
अभाववादः ।
कारणता भवत्विति 'दण्डोऽप्यकारणं स्यात् । न च सर्वत्राधिकरणग्रहोपक्षीमिन्द्रियम् । तथाहि - गेहे आलोको नास्तीत्युन्मीलितनयनस्य भवति ताव दभावधी :', निमिलित नेत्रस्तत्र संदिग्धे, ' तत्र न चक्षुरधिकरणग्रहोपक्षीणम्, आलोकविरहे तस्याग्राहकत्वात् । तथा चाऽत्र चरणप्रसारिका न सम्भवति । कथमन्यथा घटाभाववद्भूतलं पश्यामीत्यनुव्यवसाय: । अनुमितौ तु वह्निमतया पर्वतं पश्यामीति न कस्यापि धीरिति महान् विशेषः ।
१२७
एवमवधृतप्रत्यक्षभावस्याभावस्य प्राङ् नास्तितावधारणानुरोधेनापि न प्रमाणान्तरगम्यता । तत्र कथमवधारणमिति चेत् । पूर्वं योग्यानुपलब्धेरेव । तर्हि तत्र सैव प्रमाणं स्यादिति चेद् भवतु किं तु न स्वरूपसती अपि तु लिङ्गभावेन ज्ञाता | योग्यानुपलब्धेः कथं ज्ञानमिति चेत् । मनसैव । या योग्यानुपलब्धौ सन्देहः तदा वदति न जानामि तत्रासीन्न वेति ।
स्मरणार्हस्य स्मरणेन तत्राभावावधारणमिति अन्ये । योग्यानुपलब्धि सहकारिणीमासाद्य ज्ञानान्तरोपनीते अधिकरणे मनसा एव प्राङ्नास्तितावधारणमित्यपरे । स चायं योग्यप्रतियोगिको गृह्यते इत्यपरे । योग्याधिकरणक इत्यन्ये । उभययोग्यताप्रतियोजिकेतीतरे । अत्र योग्यप्रतियोगिकत्वमात्रं यदि तन्त्रं तदा रूपाभावो मनसि चक्षुषा गृह्येत । अधिकरणमात्रयोग्यताऽपि न प्रयोजिका । घटे धर्माद्यभावस्य प्रत्यक्षताप्रसङ्गात् । न चोभयं प्रयो जकं, स्तम्भे पिशाचाऽन्योन्याभावाग्रहप्रसङ्गात् । न चानुमानिक्येवाभावधीः, घटः पटो न भवति इत्यत्रापि तथाभावप्रसङ्गात् । तस्माद्यस्य यत्र भावो यत्सासाक्षात्कारविरोधी तत्र तस्याभावः प्रत्यक्षेणैव गृह्यते । एवमन्योन्याभावे अधिकरणयोग्यतैव तन्त्रम् । संसर्गाभावे तु यत्र प्रतियोगिविरह प्रयुक्तप्रतियोग्यनुपलम्भस्तत्र योग्यप्रतियोगिको गृह्यते । अत एव वाय रूपाभावः, गेहे शब्दाभावश्च प्रत्यक्षः । मनसि तु रूपविरहप्रयुक्तो न रूपानुपलम्भ इति नासौ तत्र योग्यः । अन्ये तु योग्यप्रतियोगिकत्वमेव तन्त्रं सर्वत्र इत्याहुः । इति सर्वं सुन्दरमिति सङ्क्षेपः ॥
* इति श्रीमहामहोपाध्याय श्री शशधरकृतं न्यायरत्नप्रकरणं शशधराख्यं
समाप्तम् ॥
१.- १. This portion is missing in P । २. I. O reads सन्दियेत । ३. P+I. O. read इत्येके । ४. P reads इति श्रीमहामहोपाध्यायशशधर कृतमभावप्रकरणं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org