________________
ईश्वरवादः।
११७ 'णादुत्पद्यमानं प्रतिबध्नानि । तथा च तस्ये विश्वकर्तृन्वं न स्यात् इति धर्मिग्राहकप्रमाणविरोध एव । ____ ननु तथापि भगवतः सार्वत्यं घटादिकर्तृत्वं च कथं ? पक्षधर्मताबलादिति चेन्न, तस्याः साध्यपक्षसम्बन्धमात्रे सामर्थ्यात् । अन्यथा व्यतिरेकिमात्रविलयात् इति । मैवं, यत्र प्रथमत एव तावदनुपपत्तिप्रतिसन्धानम् , 'तत्रान्वयिनैव साध्यविशेषः परिच्छिद्यते अन्यथा व्यतिरेकिणेति विषयविभागात् कर्तृत्वेन भगवतः कार्यवत्त्वमेव लाघवात् नियामकम् । तच्च घटादिसाधारणम् अतस्तत्राप्यसौ कर्जेति न किञ्चिदनुपपन्नम् । एवं सति घटदृष्टान्तेन कार्यत्वादेव द्विकर्तकत्वसिद्धिः पक्षेऽपि स्यादिति चेन्न । व्याप्तौ प्रमाणाभावात् । लाघवात् प्रथमत एककर्तृकत्वप्तिद्धौ अनन्तरं द्विकर्तृकत्वसाधने 'बाधाच्च ।
तथाऽप्यात्मत्वे तस्य किं मानम् ? ज्ञानवत्वमिति चेन्न । सुखवत्वस्योपाधित्वात् । धर्मिग्राहकादेरेवेति चेन्न । तस्यात्मत्वे औदासीन्यात , न ह्यात्मत्वान्तर्भावेन, कर्तृत्ववैयादिति । मैवम् । आत्मत्वं हि जातिः प्रत्यक्षसिद्धा। द्रव्यमात्रवृत्तिजातौ व्यवस्थापकापेक्षा दृष्टेति तत्रापि तद्वक्तव्यं, तच्च धर्माधर्मभावनानामतीन्द्रियत्वे न, जघन्यप्रतीतिकत्वात् । तथा च ज्ञानादिषट्कमवशिष्यते । तत्रापीच्छादिपञ्चकोपजीव्यत्वात् ज्ञानमेव तव्यवस्थापकम् । तथा च न मुखित्वमुपाधिरप्रयोजकत्वात् ।
यद्वाहंशब्दस्तावद्भगवता वेदे प्रयुक्त इत्यविवादम् । तत्प्रवृत्तिनिमित्तं चात्मत्वमेव लाघवात् । तथा चानुवादे तावदहंशब्द एवात्मत्वे प्रमाणमिति । यद्वा "द्वे ब्रह्मणी वेदितव्ये" इति श्रुतेः ब्रह्मपदं भगवति प्रयुज्यमानं दृष्टं, ब्रह्मत्वं चात्मत्वमेव परिशेषात् । तथा च तदेवात्मत्वे मानमस्य । ननु तथापि नित्यमेव ज्ञानं परमेश्वरे इति न युक्तिमत् । तथाहि । यथा कतानिर्वाहकतया नित्यज्ञानमेवं प्रतिष्ठादिना तस्याहङ्कारममकारलक्षणम
. I.O. reads तथा च सति । २. I. O. reads 'प्रमाणबाधः। ३. I. O. reads तत्रान्वयित्वेनैव । ४. I. 0. reads प्रमाणबाधाच्च । ५. M, has some extra readings here which are obviously explanation of the सपाधि। ६. M, reads सुखित्वेनोपाधिः । ७. I.O. reads चार्थवादे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org