________________
११८
नित्यं ज्ञानमप्यास्थेयम् । एवं वैषयिकसुखदुःखादिश्रवणाद्धर्माधर्मावषीश्वरेऽङ्गीकर्त्तव्यौ । यद्वाऽभिनिवेशश्रवणादनित्यद्वेषोऽपि । न चैवं संसारित्वप्रसङ्गादनुपपत्तिः । तेऽपि नित्यज्ञानादिकमादाय विश्वकर्तृत्वाविरोधात् । न च ईश्वरव्यतिरिक्तमात्मान्तरमेव ब्रह्माविष्णुमहेश्वरादिकम् इति वाच्यं, भगवद्गीताप्रमाणत्वोपदर्शनविरोधात् ।
न्यायसिद्धान्तदीपे
अत्राहुः - ईश्वरव्यतिरिक्ता एव ब्रह्माविष्णुमहेश्वरादयः । न च भगवद्गीताप्रमाणत्वोपदर्शन विरोधः धः । न ह्याचार्याः परमेश्वरे गीतामेव प्रमाणयन्तीति । प्रतिष्ठादिनाऽहङ्कारमम कारोत्पत्तेरप्याचार्यैरावेदनात् । किमत्र तत्त्वमिति चेद्, ईश्वराद्भिन्नत्वमेव ब्रह्मादीनां, गीता तत्र प्रमाणत्वेनोपदर्शिता तेषामभेदमभ्युपेत्य । कथमन्यथा ब्रह्मगोऽपवर्गकाल इति भाष्यव्याख्यानं चक्रिरे । तद्यथा - ईश्वर एव ब्रह्मादिशरीरमुपादते । तदा ब्रह्मणोऽपवर्गकाले शरीरापगमकाले, न तु मोक्षकाले तस्य सर्वदा मुक्तत्वात् । अथेश्वरभिन्न एव ब्रह्मा तदा मोक्षकाल इति । नन्वेवं सर्गादिकाले अव्युत्पन्नस्य व्युत्पन्यर्थे प्रयोज्यप्रयोजकभावेन भिन्नशरीरमुत्पाद्य घटमानयेत्यादिवाक्यमाकर्ण्य घटमानयति प्रयोज्यप्रयोजकभावापन्न ईश्वरस्तु तदनन्तरं अव्युत्पaisaधारयति अनेन वाक्येनास्य ज्ञानमुत्पन्नमिति । नन्वेवं तस्माद् भ्रममूलकतया व्युत्पत्तिग्रहोऽसमीचीन एव स्यादिति । मैवम् । आद्यव्युत्पत्तिग्रहे भ्रममूलकत्वेऽप्यग्रे समीचीनत्वोपपत्तेः । अन्ये तु " स तपोऽतप्यत" इति श्रुतेरणिमादिप्रतिपादकश्रुतेश्च धर्माधर्मावनित्यज्ञानादिकमपीश्वरे स्वीकुवन्तीति सर्वमवदातम् ।
॥ इतीश्वरवादप्रकरणम् พี
३.
१. I. 0. reads तथात्वेऽपि । २. M, drops a line here I.O. reads भगवद्गीतामेव । ४ I O misses नन्वेवं सर्गादिकाले । ५. I. 0. reads instead : इति महामहोपाध्यायशशधर विरचितन्यायरत्नप्रकरणः ॥ श्रीः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org