________________
११६
न्यायसिद्धान्त दीपे
चेत् तर्हि भावे साध्ये बाधो दूषणमेव न स्यात्, अतीन्द्रियत्वेन साध्यपर्यवसानसम्भावनायाः सर्वत्र सुलभत्वात् । एवमस्त्विति चेत् तर्हि गृहमिदं पर्वतवत् वस्तुत्वादित्यत्रापि बाधो न स्यात् । पर्वतस्यातीन्द्रियसिद्धिसम्भावनायाः दुर्वारत्वात् । किञ्च शृङ्गव्यतिरेकः कचित् सिद्धो न वा । प्रथमे तुल्यन्यायतया पक्षेऽपि स्यात् । द्वितीये तु केवलान्वयित्वात् कथं साधकत्वं, त्वयाऽनङ्गीकारात् । कर्तुरपि योग्यतानियतत्वात्कथं 'सिद्धिरिति चेन्न ज्ञानादिमतः परायोग्यत्वात् । शरीरस्य च व्यर्थतया कर्तृपदार्थवहिर्भावात् । न च ज्ञानादीनामेव स्थैर्यकल्पनं तेषामाशुतरविनाशित्वेन नियतत्वे जन्यज्ञानादीनामेव प्रयोजकतया विरोधेन तथाऽकल्पनात् ।
,
तथा
स्यादेतत् सिध्यतु तावद्विवादास्पदं सकर्तृकत्वं परं तु तत्र द्वेषः किमिति न सिध्येत् । तथा च कार्ये ज्ञानचिकीर्षाकृतिमत्पूर्वकत्वं दृष्टम् क्वचिज्ज्ञानद्वेषनिवृत्तिमत्पूर्वकत्वमपि एवं निवृत्तिरपि सिध्येदिति चेत् । साऽपि भवतु, तथा च ज्ञानं चिकीर्षाद्वेषौ प्रयत्नद्वयं तत्र भवतु । न च द्वेषप्रयुक्ता निवृत्तिरेव नेष्यते, अपि तु द्वेषात् जिहासा ततो निवृत्तिरिति वाच्यम् । तथा सति द्वेषे मानमेव न स्यात् । जिहासयैवान्यथासिद्धेः । द्वेष्मीत्यनुभवो मानमिति चेन्न, अनिष्टसाधनताज्ञानस्यैव द्वेषपदेन तत्राभिलापात् । तत्रापि हेतुहेतुमद्भावोऽनुभूयत इति चेत् । भवतु, तथापि द्वेषयोनिः प्रयत्न इति भज्येत । जिहासाद्वाराप्रयत्नविशेषस्तज्जन्य इति चेत् । जिहासासाधनमेव द्वेषः तर्हि परमेश्वरे सिध्यतु । द्वेषवतः सांसारित्वप्रसङ्ग इति चेत्, चिकीर्षावतोऽपि प्रसङ्गतौल्यात् । तत्र च धर्मिग्राहकमा - नबाध इति चेत् । द्वेषवतोऽपि समानम् ।
मैवम्, द्वेषचिकीर्षे समानविषये एव स्वीकर्त्तव्ये भिन्नविषये वा । नाधो, विरोधात् । न ह्येकदैकत्रैकस्य द्वेषचिकीर्षे सम्भवतस्तथा सति द्वेषात् तत्तत् कार्यं न कुर्यात्, चिकीर्षातः कुर्यात् इति महद्वैषम्यम् । द्वितीये तु तत् कार्य न कुर्यादेव, न हि यत्र यस्य द्वेषः तदसौ जनयति, प्रत्युत स्वकार
१. I. O. reads कर्त्तसिद्धिः । २. I. O reads आशुतरविनाशितानियतजम्यज्ञानादीनामेव । 3. I. O. misses न सिध्येत् । ४. M 1 misses here ५. I. O reads द्वेष्मीत्यनुमानमिति । ६. 1. O प्रसङ्गस्य तुल्यत्वात्
Jain Education International
For Private & Personal Use Only
।
www.jainelibrary.org