________________
ईश्वरवादः ।
११५
नापत्तेः, न व्यासज्यवृत्तिः केवलधूमे व्याप्तिविरहापत्तेः सामान्यवत्त्वे सत्यस्मदादिबाह्यकरण प्रत्यक्षत्वादौ तथा दर्शनात् ।
यत् पुनरुक्तं शरीराजन्यत्वं नाजन्यत्वमेव शरीरविशिष्टं किंत्वभावान्तरम्, एतदपि मन्दम् | अन्वयव्यतिरेकाभ्यां आकाशादावत्र व्याप्तिग्रह्या । तत्र शरीराजन्यत्वोपस्थितावजन्यत्वोपस्थिते रावश्यकत्वात् तत्रैव व्याप्तिग्रह्या, न शरीराजन्यत्वे, गौरवात् । न च अजन्यत्वं विना क्वचिदपि शरीराजन्यत्वाकर्तृत्वयोः सामानाधिकरण्यसिद्धियैतः तथा स्यात् । अत एव सुरभीन्धनप्रभववह्निविरहात् विशिष्टधूमविरहानुमानमुपपन्नम् । तथाहि वह्निमात्रविरहात् यथा जलहूदे धूमविरहः तथा वह्निमन्ययोगोल के विशिष्टवह्निविरहादपि सिद्ध एवं । तथा च विवादास्पदे वह्निमति विशिष्टवह्निविरहात् तथाभूतधूमविरहसिद्धिर्न विरुद्धा । किञ्च व्यापकस्यैव विरहो व्याप्यविरहव्याप्यैः । न च शरीरजन्यत्वं सकर्तृ कत्वव्यापकमपि तु जन्यत्वमेव, तस्यैव तथावधारणात् शरीर जन्यत्वं शरीरकर्तृकत्वव्यापकमतस्तद्विरहात् तद्विरहः सिध्यत्येव । अपि च जन्यत्वाभावस्तज्जन्यत्वाभावव्यतिरिक्त इत्येव नेष्यते । किन्तु तज्जन्यत्वाभावकूटे एव जन्यत्वाभावसिद्धिः, अधिके मानाभावात् । तथाच जन्यत्वाभावत्वेनैव तत्राभावकूटे व्याप्तिः वर्त्तते न तु प्रत्येकं, मानाभावात् । यत्राऽनेकमेव व्यापकं तत्र तदभावोऽपि गमक इति दिक् ।
ननु ज्ञानादीनामनित्यत्वेन नियमावधारणात् कथमनुमानोदय इति । मैवम् । व्याप्तौ प्रमाणाभावात्, रूपत्वानित्यत्वयोरिव, अन्यथा नित्यं रूपादिकमपि न सिध्येत् । न च शशशृङ्गप्रतिबन्दिरदुषणत्वात् । न च शशशृङ्गासिद्धया प्रकृते किञ्चिदूषणं भवति । यदेव तत्र दूषणं तदेव प्रकृतेऽपि विवक्षितमिति चेन्न । शशशृङ्गसाधने बाधो व्याप्तिविरहश्च दूषणे, न च तेऽपि प्रकृते बाधाभावाद् व्याप्तिसाधनाच्च । अतीन्द्रियमेव शशशृङ्गं सिध्येदिति चेन्न । तस्य योग्यतानियतत्वात् । इदम् असिद्धमेवेति चेन्न तस्यैव प्रमाणाभावात् । अन्यथा घटादिकमपि तथा न स्यात् । मा भवत्विति १. P misses अजन्यत्वोपस्थिते: । २ Mg adds विशिष्धूमविरहः । ३. ३. This portion is missing in P 8. P runs upto this portion only : last page 652
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org