________________
न्यायसिद्धान्तदीपे समवधानगभौं हि तौ कारणताग्राहको तथाभूतौ चात्र सम्भवत एव । अत एव मयेदं कृतमिति व्यवहारः सकलजनसाधारणः । अपि च ज्ञानरादौ तावदात्मन: कारणत्वं सिद्धमेव । तत्र च प्रयोजकं मृग्यमाणं न कार्यत्वातिरिक्त सम्भवतीति कार्यमात्रमेवात्मजन्यमिति न किञ्चिदनुपपन्नम् ।
एवं लिङ्गमपि नानुपपन्नम् । प्रागभावप्रतियोगित्वस्यैव व्यवहारसाक्षिकत्वात् । उत्पत्तिमत्त्वं तु चरमध्वंससाधारणं सामग्र्यव्यवहितोत्तरक्षणसत्त्वसम्बन्धादिकं शक्यनिवेचनमिति तदपि नानुपपन्नम् । एतेन पूर्वकालासम्बन्धे सति सत्वमेव हेतुरिति यद् व्यर्थविशेषणत्वमुक्तं तदपि निरस्तम् ।
यत् पुनरुक्तं कार्यत्वस्य क; सह व्याप्तिरनुपपन्ना, तदपि मन्दम् । कारणसामान्येनापि रूपेण व्याप्तिरवधारिता कारण विशेषमादाय पर्यवस्यति । निविशेषं न सामान्यमिति न्यायात् । अन्यथा कार्यत्वात् निमित्तकारणमपि न सिध्येत् । किच्चाचेतनकारणमात्रस्य कर्तृव्यापारवत्त्वावधारणात् कथं न कर्ता सह व्याप्तिः । अत एव न शरीरकार्यत्वमेवोपाधिः साध्यव्याप्तौ मानाभावात् । व्यभिचारोन्नयने व्यर्थत्वात् च । ननु व्यर्थत्वं न दूषणमिति चेन्मा वरिष्ठाः। अग्रे दूषणत्वस्य व्यवस्थाप्यत्वात् । अत एव शरीरबाधात् न कर्तुर्वाधः । शरीरस्य तदव्यापकत्वात् ज्ञानादिगतकायत्वप्रयुक्तत्वात् तस्य॑ । ननुक्तम् शरीराजन्यत्वेन सत्प्रतिपक्षतास्तु व्यर्थविशेषणादन मितिदर्शनात न व्यर्थत्वं दूषणमिति चेन्न । येन रूपेणोपस्थित एव हेतौ व्याप्तिरवधार्यते तद्विशिष्ट एव व्याप्तिर्वर्तते नीलत्वं पुनधमे न तथास्ति तद'ग्रहेऽपि तत्र व्याप्तेरवधारणात् । तथाच तेन रूपेण व्याप्तिरसिद्धति व्याप्यत्वासिद्ध एवान्तर्भावः । अत एव नीलधृमवत्त्वात् वह्निमत्त्वावधारणेऽपि नीलधूमप्रयुक्तसाध्यवत्ताप्रत्ययस्तु भ्रान्त एव इत्यवधेयम् ।
किं चोभयथा हि व्याप्तिः कचित् प्रत्येकवृत्तिः, कचिद् व्यासज्यवृत्तिश्च । तथाच नाऽत्र प्रत्येकवृत्तिाप्तिः केवलनीलादपि हुताशनानुमा
.. P reads कार्यत्वमतिरिक्तम् । २. P reads तु ध्वंससाधारणम् । ३. I.O. readsम किञ्चिदनुपपन्नम्। ४. I. O. reads अबाधिता, P reads अबाधितं । ५. P reads अचेन नकारणपात्रपकर्तृकत्वव्याप्तिकत्वावधारणात् । ६. P reads प्रयुक्तत्वाच्च । ७. P misses न here । ८. P reads नीलधूमवह्निमत्त्वावधारणे । ९. P reads प्रत्ययो भ्रान्तिरेव । १०. I, O. reads (अ)वधातव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org