________________
ईश्वरवादः । व्यवहारसाक्षिको घटादिदृष्टान्तदृष्टो नित्यवर्गव्यावृत्तः साध्यते सहेतुकत्ववत्'। स चान्यकर्ता नान्यत्र निर्वाह्यते । तथाननुभवात् । अन्यथाऽऽकाशादावपि सकर्तृकत्वसहेतुकत्वव्यवहारः स्यात् । कथमन्यथा शरीराजन्यत्वेन संकर्तृकत्वव्यतिरेकसाधनाय त्वमेव यतसे । एवं बुद्धिमत्पूर्वकत्वे साक्षाबुद्धिमत्पूर्वकत्वं यदि साध्यते तदा न काचित् क्षतिः । साक्षात्कृतिजन्यत्वं यदा साध्यते तदा साक्षाज्जन्यत्वं कार्याव्यवहितपूर्वसमयवृत्तिकृतिजन्यत्वमेव विवक्षितं तच्चेष्टादावपि सिद्धमिति न किश्चिदनुपपनम् ।
__ अपि च घटादिसमवायिगोचरज्ञानादिमता न सिद्धसाधनं, सम्बन्धिशब्दमहिम्ना तन्निरासात् । उपादानादिगोचरापरोक्षज्ञानादिमत्पूर्वकत्वं यद्यपि वाय्वादावस्मकर्तृके नास्ति । तथापि अनेन रूपेण तत्रास्मकर्तृकताव्यवहारो मा भवतु । तथापि घटादिस्थलसिद्धव्याप्तिबलात् एतत्साध्यं पक्षेऽपि सिध्यत् केन वारणीयम् । उपादानपदेनोपायमानं विवक्षितमिति न चात्र सिद्धसाधनता सर्गाद्यकालीनकार्यस्य पक्षीकरणात् । न चापरोक्षज्ञानान्तर्भावेन सकर्तृकत्वानुपपत्तौ कथमपरोक्षज्ञानसिद्धिरिति वाच्यम् । अनुपपत्तेरभावात् । तथाहि यागादावपि कृतिः साक्षात्कारनियम्यैव । शाब्दं तु तत्र परंपरया ज्ञानमुपयुज्यते । तथा च कृतिनियामके साक्षात्कारसिद्धिं को वारयिता । तथाहि ज्ञानादिमज्जन्यत्वे साधने लाघवादेकमेव ज्ञानं सिध्यत् सकलप्रमाणोपजीव्यं प्रत्यक्षमादाय विश्राम्यति, न त्वनुमानादिकमिति न किश्चिदनुपपन्नम् ।।
यत् पुनरुक्तं यावद्विशेषबाधात् तज्ज्ञानमपि न सिध्येदिति तदयुक्तं, विशेषबाधस्यानुपपत्तेः। न हि जन्यसाक्षात्कारत्वादिकं कारण विशेषप्रयोज्यमित्यजन्येऽपि तथा स्यात् । एवं हि जन्यवृत्तिसामान्यम् जन्येनैव सिध्येत् । ननु ज्ञानादिमज्जन्यत्वं सकतकत्वमित्येव नास्ति, ज्ञानाश्रयस्य घटादिजनकत्वे मानाभावात् । अन्वयव्यतिरेकाभ्यां तदवधारणमिति चेन्न । तस्य नित्यत्वेन व्यतिरेकाभावात् । तथा च ज्ञानादेरेव घटादौ जनकत्वं, न तदाश्रयस्य । मैवम् । एवं ज्ञानाधाश्रयकर्तृसिद्धेरविरोधात् । किठच ज्ञानादीनां यथा अन्वयव्यतिरेकाभ्यां घटादिकारणत्वं तथा तदाश्रयस्यापि,
१. M1 reads सहेतुकत्वात् । २. I.0. reads तथानुभवाभावात् । ३. P+ I. 0. read -पूर्वक्षणवृत्ति- । ४. I. O.+P read एवम प । ५. P reads ज्ञानाद्याश्रयत्वे कर्तृत्वसिद्धेः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org