________________
११२
न्यायसिद्धान्तदीपे र्तृकत्वं घटादीनाम् । तत्र येषां न प्रसिद्धकर्तृकत्वं तेषु पक्षीकृतेषु पर्वतत्वाङ्घरत्वद्वयणुकत्वादिभिः प्रकारैरुपस्थितेषु नित्यवर्गप्रसिद्धकर्तृकोभयभेदग्रहा सुकर एव । न चानन्त्यादशक्यग्रहत्वं भेदग्रहस्य प्रतिकूलस्यानन्त्यस्यासिद्धेः। अन्यथा उभयभिन्ना केचित् पदार्था इत्यभिलाप एव न स्यात् । प्रसिद्धपदार्थखण्डनं तु न दण्डाय प्रकृतवादिप्रसिद्धरेव विवक्षितत्वात् । एवं घरमोऽपि न सम्भवी । स्वजनकादृष्टाजनकप्रयत्नाजन्यत्वे सति जन्यत्वस्व तत्वात् ।
कश्चित्तु विवादास्पदीभूतस्य एकस्यापि पक्षत्वे भगवत्सिद्धिरविरुद्वैवेति । तदनुपपन्नम् । अन्यत्र संदिग्धानकान्तिकताप्रसङ्गात् । न पक्षसमे सन्दिग्धानकान्तिकतेति चेन्न । आज्ञामात्रत्वात् । पक्षेऽपि तर्हि तत् स्यादिति चेन्न । तत्र संशयस्य विचाराङ्गत्वात् । अन्यथा तु अनुमानमात्रोच्छेदप्रसङ्गात् । पक्षसमे तु नैवम् ।
किञ्च विषयपरिशोधकतर्केणैव संशयनिवृत्तेः कथं पक्षे सन्दिग्धानकान्तिकता । न च पक्षसमे तर्कादेरवतारस्तस्याविषयत्वात् । तथात्वे वा न पक्षसमत्वं किन्तु पक्षत्वमेवेति घटकुटयां प्रभातम् । ननु निश्चितसाध्यविरहे हेतुमत्ता संशयेनैव सन्दिग्धानकान्तिकता भवति, न तु साध्यसंशये हेतुनिश्चये, पक्षे एव तथात्वावधारणात् तर्कस्य संशयनिवर्तकत्वे मानाभावादिति । मैवम् । तर्कस्यापि वैषयिकविरोधेन संशयनिवर्तकत्वात् । किञ्च साध्याभावसामामाधिकरण्यनिश्चयो हि हेतोः दूषकताप्रयोजकः । स च साध्यसन्देहेऽपि समानोऽन्यथा विपरीतमेव किमिति न स्यात् । ननूक्तं पक्षेऽपि तथा स्यात् । तत्र संशयस्यानुमानानुकूलत्वं न पक्षसमे तथेति किं नोक्तम् ? । अन्यथा पक्षे सन्दिग्धानकान्तिकं न दूषणमिति दूषणत्वमेवास्य नास्तीत्यस्यापि वाचाटवचसोऽवकाशप्रसङ्गात् । सर्वज्ञादिसिद्धयनुमाने तेषां पक्षत्वमिति तु कश्चित् ।
न साध्यमशक्यनिर्वचनम् । तथाहि सकर्तृकत्वे साध्ये घटादिका यत् सिद्धसाधनमुक्तम् तदयुक्तम् । सकर्तृकत्वं हि कर्तृनिरूपितसम्बन्धो
१. P misses म। २. P reads दूषकत्वम्। ३. P reads विवादास्पदस्य कस्वापि । ४. I. O. reads तर्कायवतारः। ५. P misses तस्याविषयत्वात् । ६-६. This portion is missing in P। ७. P reads किन्न । ८. I. O. reads सार्वश्यादिसिद्धयर्थमनमाने । ९. Preads अनिर्वचनीयम्। १०.Preads सर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org