________________
ईश्वरवादः ।
११ संहारानुपपत्तिः, अनुपसंहारेऽपि विरोधिव्याप्तिप्रतिसन्धानस्य एव प्रतिबन्धकत्वात् । . किञ्चैवं शशशृङ्गमपि पशुत्वात् सिध्ये त् । नहीश्वरसाधनशशशृङ्गसाधनयोः कश्चिद्विशेषः । भवतु वा विवादास्पदे कर्तुः सिद्धिः। ऐश्वर्य कुतो ? अनीश्वरस्य कर्तृत्वासम्भवादिति चेत् कुतोऽसम्भवः, सर्गाधकालीनकार्यपक्षीकरणात् इति चेत् । तर्हि अस्मदादीनामेव कस्यचित् प्रलयप्राक्कालीनज्ञानचिकीर्षाकृतीनां स्थैर्यमेव तदनुरोधेन कल्प्यतां धर्मिकल्पनातो धर्मकल्पनाया लघुत्वादिति ।। . . अत्रोच्यते । प्रकृतविचारानुकूल विवादास्पदत्वस्यैव वा पक्षतावच्छेदकत्वम् । विवादास्पदत्वावच्छेदकता तत्तद्रव्यत्वगुणत्वकर्मत्वादीनां शक्यावधारणानां अननुगतानामेव । न चानुमानप्रवर्तनकाले विवादविरहात् नावच्छेदकतासम्भवः, तस्य ज्ञानस्यावच्छेदकत्वात् । ज्ञानस्य च तैदपगमकाले विद्यमानत्वात् । एवं शरीरिकर्बनपेक्षोत्पत्तिकत्वेनापि पक्षता नानुपपन्ना ।
ननु शरीरिपदवैयाददृष्टद्वारा तत्सम्भवेनासिद्धया चानुपपन्नमेवेति उक्तम् । न पुनयुक्तिमत् । तथाहि सुप्रसिद्धशरीरिकर्तृव्यावृत्ते न तावद् व्यर्थता । अन्यथा स्वमतेऽसिद्धं विशेषण स्यात् । एवमदृष्टद्वारा अस्मदादीनामङ्कुरादिजनकत्वमपि न समीचीनं मानाभावात् । न हि यद्यस्यादृष्टेनारभ्यते स तत्र का नाम । अस्मदाघदृष्टारब्धघटस्यास्मदादिकर्तृत्वेन व्यवहाराभावात् । अत एव शरीराजन्यत्वेन सत्प्रतिपक्षत्वं त्वमेव कुरुषे । आदिमत्त्वस्यापि विवादप्रकारोपनायकत्वेन सुवचमेवावच्छेदकत्वम् । यथोक्तपरत्वमेव वा तस्य । यद्यपि कर्तृसन्देहमात्रयं केवलान्वयित्वं तथापि प्रकतविचारानुकूलस्य तथात्वं तस्य चानुमानप्रवर्तनकालेऽसम्भवेऽपि तदुपलक्ष्ययोग्यतावच्छेदकतानिर्वचनादेव नासम्भवः । एवं भिन्नत्वमपि न दुर्ग्रहम् । तथाहि द्रव्यगुणकर्मणां कियतामेव जन्यत्वम् । तत्रापि कियतां प्रसिद्धक
१. P reads विवादास्पदकर्तृसिद्धिः। २. P reads तत्तव्यगुणत्वादीनाम् । ३. P reads तदागमकाले। ४. I.O. reads व्यावर्त्तनात् । ५. P reads स्वतो विशेषणं म स्यात् , M, reads स्वतोऽसिद्धं विशेषणं स्यात् । ६. P+ I. O. read जन्यते । ७.
I.O. read अस्मददृष्टजन्यघटस्यास्मत्कत्तत्वेनाव्यवहारात् । ८-८. This portion is missing in P. The editor acknowledges it in the footnote there in । ९. P reads निर्विवादेव, I.O. reads तत्संभवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org