________________
११०
न्यायसिद्धान्तदीपे जन्यत्वं वा १ प्रागभावप्रतियोगित्वं वा २ उत्पत्तिमत्त्वं वा ३। नाद्यः। असिद्धेः। नापरः प्रोगभावप्रतियोगित्वस्य तत्स्वरूपादन्यस्याभावात् । नान्यः। अनिर्वचनात् । स्वसमानकालीनपदार्थध्वंसानधिकरणसमयसंबन्ध उत्पत्तिरिति चेन्न । चरमध्वंसोत्पत्त्यव्यापनात् । तस्याऽपि चोत्पत्तिमत्तया त्वया सकर्तकत्वाङ्गीकारात् । पूर्वकालासम्बन्धे सत्त्युत्तरसमयसम्बन्ध एवोत्पत्तिरिति चेन्न व्यर्थविशेषणत्वात् । कथं वा क; सह कार्यत्वस्य व्याप्तिरपि शक्या । कर्ता हि कारणविशेषः, कार्यत्वं च कार्यमात्रवृत्तिसामान्यं, न च तत्र कारणविशेषापेक्षा किन्तु कारणत्वेन । तथा च कार्यात् कारणमात्रमायाति । न तु तद्विशेषकर्ताऽपि । न च सामान्येन रूपेण कर्ता सिद्ध इति वाच्यम् । सामान्यस्य यत् किश्चित् कारणमादायोपपत्तौ कतृत्वास्पर्शात् । अत एव कर्तरि साध्ये शरीरकार्यत्वमुपाधिमभिदधाति । शरीररूपकर्तृव्यापकबाधा कर्तृबाधश्च ।
अपि च शरीराजन्यत्वेन कथं न सत्प्रतिपक्षत्वम् । व्यर्थविशेषणत्वादिति चेत् न । किं व्यर्थविशेषणत्वं, निष्प्रयोजनत्वं वा व्यभिचारावारकत्वं वा । नाद्यः । असिद्धिवारणार्थत्वात् । नेतरः । तथाभूतस्यापि गमकत्वात् । कथमन्यथा सुरभीन्धनप्रभवधृमरहितोऽयं तथाभूतवतिरहितत्वात् इत्यप्यनुमानम् । अत्रापि वह्निरहितत्वादित्येव हेतुरिति चेन्न वह्निमत्यपि तथाभूता. नुमानदर्शनात् । किं च यथा धूमे नीलत्वं व्यर्थ तथा नात्र व्यर्थता । तत्र धूम एव नीलत्वेन विशिष्यते । अत्र तु नाजन्यत्वं शरीरेण विशिष्यते किन्तु जन्यत्वमेव ।
किच जन्यत्वाभावादन्य एवं शरीरजन्यत्वाभावः। अन्यथाजन्यं शरीराजन्यं न स्यात् । तथा च कर्थं व्यर्थता । किञ्च ज्ञानत्वेच्छात्वप्रयत्नत्वानामपि अनित्यवृत्तित्वेनात्मत्वस्याप्यनित्यज्ञानादिमत्समवेतत्वेनं कर्तुः शरीरित्वेन नियमावधारणात् कथमनुमानोदयः इति । न च सिद्धयसिद्धिव्याघातादुप
१. P+ I. O. drop प्रागभाव-। २. P drops स्व-. ३. P reads कारणान्वितः । ४. P adds एव here । ५. P reads तावत् सिध्यतीति । ६. P reads कर्तृव्याप्यव्यापकबाधात् । ७. P reads यथा अन्यत्वाभावात् एवम् । ८. P reads कर्तव्यर्थत्वम् । ९. P reads ज्ञानेच्छाप्रत्ययानामप्यनित्यत्वेन । १०. P+ 1. o. read (भ)नित्यज्ञानादिमत्त्वेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org