________________
शब्दानित्यतावादः।
१०७
अन्ये तु भूतले घटो नास्तीति बुद्धौ घटसंयोगाभाव एव भासते घटपदं तु विरोधितामात्रसाम्येन संयोगे लाक्षणिकमित्याहुः। भूतले घटाभावो जातो विनष्टश्चेति व्यवहारदर्शनात् । अन्य एवायमुत्पत्तिविनाशप्रतियोगी घटाभाव इति पाश्चात्याः।
_ यत् पुनरेकत्वपृथक्त्वादिना व्यभिचारो दर्शितस्तदपि मन्दम् । प्रतिनियतव्यञ्जकव्यङ्गयत्वं हि परस्पराव्यजकव्यङ्गयत्वं विवक्षितम् । तच्च पृथत्वे यद्यप्येकत्वापेक्षयाऽस्ति तथापि पृथक्त्वापेक्षया एकत्वे नास्ति । एवमितरत्रापि बोद्धव्यम् । यद्वा पृथक्तवव्यावृत्त्यर्थं निरवधित्वेन विशेषणीयम् । बलाकारूपबलाकापरिमाणव्यावृत्त्यर्थ दोषविरहे सतीति विशेषणीयम् । बलाकारूपे नीलत्वारोपो रूपं तु सामान्यतो गृह्यत एवेति कश्चित् ।
___ अवयविनि गृह्यमाणे यदि तावदवयवबहुत्वमुत्पन्नं तदा गृह्यत एव । नो चेदभावादेव न गृह्यते इति तेनापि सह न व्यभिचारः।
यत्तु नीरजनीलिमा दीपेन न व्यज्यते नीरजत्वं तु व्यज्यत इति तेन व्यभिचारो दृश्यते तदपि मन्दम् । समानाश्रयत्वेनान्यूनानतिरिक्ताश्रयत्वस्य विवक्षितत्वात् । अत्रापि रूपं गृह्यते नोलत्वं न गृह्यते तत्तु भिन्नाश्रयमिति केचित् ।
उत्कर्षापकर्षवत्त्वेनाप्यनित्यतानुमान युक्तमेव । तथाहि सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकरूपवत्त्वमुत्कर्षः। सजातीयेन प्रतिबन्धनीयसाक्षात्कारविषयतावच्छेदकरूपवत्त्वमपकर्षः। एतदुभयमपि गन्धसाधारणमेव शब्दे वर्त्तते इति न किञ्चिदनुपपन्नम् । यद्वा सजातीयावधिमतोऽवधिमत्त्वमुत्कर्षापकर्षत्वम् । गुणत्वसाक्षाव्याप्यभूयोजातिमत्त्वं तदिति कश्चित् । तच्चिन्त्यम् । केचिच्च प्रत्यभिज्ञानं कत्वादिसामान्यभेदेनापि शक्यसमर्थनम् । उत्पत्तिविनाशप्रत्ययस्तु न तथेति तबलेनैव निष्प्रत्यूहा शब्दानित्यतासिद्धिरित्याहुः । न चाकाशमात्रगुणत्वेने सत्पतिपक्षत्वमप्रयोजकत्वात् । साधनधर्मावच्छिन्नसाध्यव्यापकस्यातीन्द्रियाकाशगुणत्वस्योपाधेः सत्त्वाच्च । एवमुपाध्यन्तरमूहनीयम् ।।छ॥ इति शब्दानित्यतावादः ।
१. I.O. reads °मात्रेण सामान्येन । २. I.O. reads इति न किंचिदनुपपन्नम् । ३. I. O. reads कश्चित् । ४. Mg reads सजातीयावध्यवधिमत्त्वम् । ५. I. O. reads आकाशकगुणत्वेन । ६. I.O. misses इति शब्दानित्यतावादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org