________________
(२५) ईश्वरवादः ।
इह ईश्वरे तावत् परविप्रतिपत्या संशये विचार आरभ्यते । तत्र परेषामयमाशयः । अनुमानमीश्वरे प्रमाणमाद्रियते । तत् किमवच्छिन्ने पक्षे प्रवर्त्तनीयम् । विवादाध्यासितत्वेन वा १ शरीरानपेक्षोत्पत्तिकत्वेन वा २ क्षित्यादिकत्वेन वा ३ सन्दिग्धकर्तृकत्वेन वा ४ नित्यवर्गप्रसिद्धसकर्तृकभावोभयभिन्नत्वेन वा ५ अन्यथा वा ६ ।
नाद्यः, विवादाध्यासितत्वस्य केवलान्वयितया सर्वत्र सम्भवेन व्यवच्छेदकत्वाभावात् । सकर्तृकत्वाकर्तृकत्व विवादविषयतायामपि तथात्वात् । किश्च विवादाध्यासितत्वम् विरुद्धप्रकारकज्ञाने विषयत्वम् तत्प्रभवाभिलाषविषयत्वं वा वाच्यं । तथा च तयोरनुमानप्रवर्त्तन कालेऽसम्भवात् कथमवच्छेदकत्वम् । अपि च विवादास्पदत्वं ज्ञातमेवावच्छेदकं तज्ज्ञानं च तदवच्छेदकज्ञानाधीनम् । तथा च तदवच्छेदकमपरमनुगतं वाच्यम् । न च तत् सम्भवति, सम्भवे वा तदेव पक्षतावच्छेदकमास्ताम् । क्षितित्वादिकम् अनुगतं तदवच्छेदकमिति चेन्न । अननुगतं तर्ह्यवच्छेदकं प्रत्येकं मेलकेन वा । नाद्यः । तस्याशक्यज्ञानत्वेन तदवच्छिन्नविवादास्पदत्वग्रहस्य दूरबाधितत्वात् । नापरः । मेलकस्याशक्यावधारणात् ।
न द्वितीयः । शरीरसमवेतगुणकर्म ध्वंसाव्यापनात् । शरीरकर्त्रनपेक्षीस्पत्तिकत्वं विवक्षितमिति चेन्न । शरीरित्वस्याव्यावर्त्तकतया व्यर्थत्वात् । असिद्धेश्व । शरीरिणोऽप्यदृष्टद्वारा कार्यमात्रकर्तृत्वसम्भवात् ।
न तृतीयः । आदित्वं तत्समानप्रकारकत्वम् अन्यत्वं वा । नाद्यः । क्षितिसमानप्रकारकत्वस्य निर्वक्तुमशक्यत्वात् । नापर: । अशक्यनिर्वचनात् ।
न चतुर्थः । कर्तृसन्देहस्यापि केवलान्वयितया अनुमानप्रवर्त्तनकाले संशयाभावादप्रसिद्धेश्व । न च संशयोपलक्षणत्वम् । उपलक्ष्याभावात् ।
१. The beginning of ईश्वरवादः is missing in P P starts from विवादाध्यासितत्वस्य, I. O generally counts the विकल्पs But in this case counting is found only in M1 । २. P reads विवादास्पदत्वम् । ३. P reads (आ) प्तम् । ४. P reads अनुगतं हि । ५. P reads ०स्पदत्वस्य पूर्वबोधितत्वात् । ६. P read शरीरवत्वस्य । ७. P+ I. O. read निर्वक्तव्यत्वापातात् । I. O. read केवलान्वयित्त्रात् ।
८. P+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org