________________
१०६
न्यायसिद्धान्तदीपे न च तारमात्रे प्रत्यभिज्ञा निराधारा' । तस्मात्तारादयमन्यस्तार इति अस्यापि भेदस्य प्रतीतिः । न च श्यामोऽयं न लोहित इतिवद्धर्मभेदावलम्बनत्वम् । धर्मिभेदावलम्बनत्वे बाधकाभावात् । न च पूर्व नासीत् ककार इति बुद्धिरत्यन्ताभावावलम्बना, नित्यत्वे तथात्वानुपपत्तेः । न च भूतले घटो नास्तीत्यत्र संयोगाभावो घटाभावत्वेन व्यवहियते, भ्रमप्रसङ्गात् । न च घटाभावोऽत्र गृह्यत एव । न. प्रतीतिविरोधात् ।
ननु कदाचिद् घटवति भूतले घटापसरणानन्तरं घटो नास्तीति या बुद्धिः सा कथम् घटाभावमालम्बते । न तावदन्योन्याभावं, संसर्गाभावत्वेनोल्लेखात् । न च प्रागभावप्रध्वंसौ प्रतियोगिसमानकालत्वात् । नाऽप्यत्यन्ताभावम् , तस्य प्रतियोग्यसमानदेशत्वात् । अन्यथा प्रागभावप्रध्वंसोच्छेदप्रसङ्गात् । न चैतत्प्रतीतिबलेन पश्चम एवोत्पत्तिविनाशधर्माभावः स्वीकर्तव्य इति वाच्यम् । अपसिद्धान्तापातात् । तस्मादिह भूतले घटो नास्तीति बुद्धया नागृहीतविशेषणान्यायेन घटसंयोग एव निषिध्यत. इत्येव युक्तम् । अत एवाहुः “संयोगो ह्यत्र निषिध्यते" इति ॥
मैवम् । इह भूतले घटो नास्तीति बुद्धिस्तावदनुभवसिद्धा। तस्या यदि घटसंयोगाभावो विषयः स्यात् तदा घटात्यन्ताभावः क्वचिदपि न स्यात् । संयोगाभावत्वेनैवान्यथासिद्धेः । एवमस्त्विति चेत् । न । घटप्रतियोगित्वेन तस्याभावस्य ग्रहणात् । तस्मादत्यन्ताभाव एव सः। न च प्रतियोगिसमानदेशताव्याघातः । अव्याप्यवृत्तौ संयोगात्यन्ताभावे' प्रतियोगिसमानदेशत्वस्य प्रतीतिबलेन स्वीकारात् । न चात्यन्ताभावस्य नित्यत्वाद् घटवत्तादशायामामपि भूतले घटो नास्तीति प्रतीतिप्रसङ्ग इति वाच्यम् । संयोगस्यैव तदानीं प्रतिबन्धकत्वात् । अभावस्य प्रतियोगिनेव प्रकारेणापि सह विरोधावधारणात् । न च प्रागभावप्रध्वंसोच्छेदप्रसङ्गः, भविष्यतिविनष्ट इति प्रतीत्योरत्यन्ताभावेनासमर्थनात् । न च संयोगो ह्यत्र निषिध्यते इत्यनेन विरोधः । भूतले घटो नास्तीत्यनेन प्रत्ययेन संयोगाभावोऽपि विषयीक्रियत इत्येवंपरत्वात्तस्येति सक्षेपः।
१. MI reads निराबाधा । २. I. O. reads बाधकासद्भावात् । ३. I. O. reads •समानकालीनत्वात् । ४. MI reads प्रतियोगिसमानदेशत्वाभावात् । ५. M, drops तस्याभावस्य, Ma reads तद्ग्रहणात् । ६. I. O. reads अव्याप्यवृत्तिसंयोगात्यन्ताभावस्य । ७. I. O. reads प्रतियोगिसादेश्यस्य प्रतीतेरेव तथाङ्गीकारात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org