________________
शब्दानित्यतावादः ।
१०५
सति तदनुपलम्भात् । तदभावत्वेन साक्षात् क्रियते, नान्यथा । अत्र अन्यत्रगमनादिविरहनिश्चयरूपप्रतिसन्धान सहकारिसमवधाने सति ध्वंसत्वेन, उत्पत्तिनियतकारणप्रतिसन्धानरूपसहकारिसमवधाने सति प्रागभावत्वेन, एवमन्योम्याभावादावप्यूहनीयम् ।
तस्मात् शब्दः अनित्यः । उत्पत्तिमत्त्वात् घटवत् । न चात्र प्रत्यभिज्ञानं बाधकम् । तारत्वादिविरुद्धधर्मसंसर्गेण ज्वालादिसाधारण्यात् । ननु तारत्वादिकं ककारादीनां न स्वाभाविकम् । तथात्वे कत्वादिना परा - परभावानुपपत्तिप्रसङ्गादिति उक्तमेवेति । मैवम् । अन्यधर्मत्वे तारत्वादीनां तारो गकार इति भ्रान्ता प्रतीतिः स्यात् ।
अत्राप्यनुभूयमानं तारत्वमारोप्यते स्मर्यमाणं वा । उभयथापि व्यक्त्यस्फुरणात् कथं तारत्वा दिजातिस्फुरणं, जातिभाने व्यक्तिभाननैयत्यात् । ननु सामान्येन व्यक्तिर्भासत एव विशिष्य तु व्यक्तिभाननैयत्यं नास्त्येव । तारत्वादिपदादेव तथाज्ञानदर्शनात् । ननु अनुभवे एवायं नियमो यद् व्यक्तिभाननियतं जातिभानं न तु स्मरणे । तथाच ध्वन्यभानेऽपि तद्धर्मतारत्वादिजातिसमारोपो यदि ककारादिषु भविष्यति तदा को विरोध इति चेत्, मैवम् । तारः ककार इति तावत्प्रतीयते । तत्र कत्वतारत्वयोः व्याप्यव्यापकभावानुपपत्त्या सर्वमेतत् कल्पनीयम् । तद्वरम् तदनुपपत्त्याऽनयोरेकस्य नानात्वमेव कल्प्यताम् । कथं तत्र विनिगमनेति चेत् । मा भवतु । द्वयोरपि कल्प्यतां तथापि न हानिः । वस्तुगत्या विनिगमनामप्यत्र करिष्यामः । एतच्च गन्धादिष्ववश्यं स्वीकर्त्तव्यम् । तथाहि मन्दो गन्ध उत्कृष्टो गन्ध इति प्रतीतिर्गन्धोत्कर्षापकर्षसामानाधिकरण्यमवगाहमानाऽनुभूयते । न च तत्रान्योत्कर्षापकप समारोप्येते, अन्यस्योत्कर्षापकर्षाश्रयस्य कल्पना - सङ्गात् । न च गुणकर्मातिरिक्तं उत्कर्षापकर्षावाश्रयेते । तस्माद्यथा तत्र गन्धत्वादिना परापरभावानुपपत्त्या नानात्वकल्पनम्, तथाऽत्रापीति न किञ्चिदनुपपन्नम् ।
१. P reads समवधानं तदभावत्वेन साक्षात्क्रियते । २. P reads प्रतीतिर्न स्यात् । ३. This chapter is incomplete in P. Text beginning from here up to the end of the chapter is missing । ४. I. O reads व्यमानेऽपि ।
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org