________________
१०४
न्यायसिद्धान्तदीपे ननूक्तमत्र श्रुतपूर्वो गकारो विनष्ट इति प्रतीतिः साक्षात्कारिणी न भवत्यधिकरणस्यायोग्यत्वात् , आनुमानिकत्वे तु प्रत्यभिज्ञानं बाधकमेव । एवत्पत्तिमत्त्वेन शब्दानित्यतासाधनेऽपि बाधकैमूहनीयमिति । मैवम् । शब्दध्वंसः प्रत्यक्षः, प्रत्यक्षप्रतियोगिकाभावत्वात् घटाभाववत् । न च योग्याधिकरणत्वमुपाधिरत्र शरणं शब्देऽपि साध्याव्यापकत्वात् । न च साधनधर्मावच्छिन्नसाध्यव्यापकत्वमेवोपाधेः आश्रयनाशजन्यघटध्वंसे एव साध्याव्यापकत्वात् ।
तत्र भूतलादिकमधिकरणं योग्यमेवेति चेत् । तत् किमधिकरणं प्रतियोगिसमवायी न विवक्षितः। एवं चेत् प्रकृऽपि गेहादिकमधिकरणमादाय शब्दाभावनिरूपणमपि न दण्डवारितमिति । एवं योग्याधिकरणकाभावत्वेनैवाभावस्य साक्षात्कारयोग्यतावच्छिद्यते इति निरस्तम्, धर्माद्यभावप्रत्यक्षताप्रसङ्गस्य मूले दर्शितत्वात् । यत्किश्चिदधिकरणमादाय प्रकृतेऽपि तत्सम्भवाच्च । अन्यथा परिमाणादिध्वंसनिरूपणे तु का प्रत्याशा ।
नन्वेवं वायुस्पर्शध्वंसोऽपि प्रत्यक्षेणैव गृह्य नेत्युक्तमेवेति चेत् । तत्र केचिदाहुः । आश्रयनाशजन्यस्य तस्य सन्निकर्षाभावादग्रहणमिति । तदयुक्तम् । परिमाणध्वंससाधारण्यात् । सोऽपि न प्रत्यक्ष इति चेत् । तत् किं कपालनाशजन्यघटध्वंसोऽपि न साक्षात्क्रियत इत्यपि वक्तुमध्यवसितोऽसि । न चैवम् । भूतले घटो ध्वस्तः, तथा तत्परिमाणमपि ध्वस्तमिति साक्षात्कारस्यानुभवसिद्धत्वात् । तस्माद्वायुस्पर्शध्वंसे एवं वक्तव्यम् । तत्र किमापाद्यते, वायुस्पर्शध्वंसे साक्षात्कारमात्रं वा ध्वंसत्वेन तत्साक्षात्कारो वा । नाधः । इह तथाभूतो वायुस्पर्शों नास्तोति संसर्गाभावत्वेन तत्प्रतीतेरिष्टत्वात् । न द्वितीयः। वायोः सदा गतिमत्त्वात् । अन्यत्र वायुगमनसन्देहस्यैव तत्प्रतिबन्धकत्वात् । तथाहि तत्तद्वयाप्येतरयावत्तद्ग्राहकसमवधाने
१. P drops एवम् । २. P reads बाधनम् । ३. P misses घटाभाववत् । १. P reads योग्याधिकरणैकत्वम् । ५. P+I.O. read साधनधर्मविशेषितसाध्यव्यापकत्वमस्य । ६. शेषानन्त comments मूले आकरे न्यायकुसुमाञ्जल्यादावित्यर्थः । ७. P reads अत्र कैश्चिदुच्यते। ८. P misses अग्रहणमिति । तदयुक्तं । ९ P reads उद्यतोऽसि । १०. P+ MI miss बायोः सदागतिमत्त्वात्, P then reads वायुगमकस्थ । ११. I. O. reads वायुगमनविरहसन्देहस्यैव प्रतीतिप्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org