________________
शब्दानित्यतावादः ।
किमपि बाधकमतो न किमिति नित्यतासिद्धिः । ननु पूर्वे नासीदिदानों विद्यते कार इति प्रत्ययबलात् आदिमत्त्वे सिद्धे तत एव सान्तत्वं सेत्स्यतीति । मैवम् । यथेह भूतले घटो नास्तीति अत्र संयोगो निषिध्यते । तथा पूर्वस्मिन् समये शब्दसम्बन्ध एवाधाराधेयभावलक्षणो निषिध्यते' । स चात्यन्ताभाव एव । न च नित्यत्वपक्षे कण्ठतालु संयोगादिनैरपेक्ष्यं शब्दस्य स्यादिति वाच्यम् । अभिव्यक्तौ तथाभावात् । न च व्यञ्जकस्य साधारण्येन सर्वशब्दोपलब्धिप्रसङ्गः । केचिदेव शब्दं प्रति कस्यचित् संयोगस्याभिव्यञ्जकत्वात् । न च समानदेशत्वे सति समानेन्द्रियग्राह्यत्वे च प्रतिनियतव्यकव्यङ्ग्यत्वनुपपन्नमिति वाच्यम् । एकत्वैकपृथक्त्वावयव्यवयव बहुत्वबलाकापरिमाणादिर्भिर्व्यभिचारात् । न चोत्कर्षापकर्षवत्त्वाद्गन्धवत् शब्दानित्यतासाधनमिति युक्तम् । न हि यदेवोत्कर्षसामान्यमपकर्षसामान्यं वा शब्दे तदेव गन्धेऽपि गन्धवत्त्वादिना परापरभावानुपपत्तेः । न चान्यद् गन्धशब्दसाधारणम् उत्कर्षापकर्षवत्त्वमनुगतं शक्यनिर्वचनं तस्मादनन्यथासिद्धप्रत्यभिज्ञानबलान्नित्य एव शब्द इति ।
अत्रोच्यते । उत्पन्नः शब्दो विनष्टः शब्द इति प्रतीतिस्तावत् सकलजनप्रसिद्धा । तत्र नौपाधिकी सा, अन्योत्पत्तिविनाशानाकलनेऽपि जायमानत्वात् । साक्षात्सम्बन्धे बाधकाभावाच्च । किञ्च घटादावुत्पत्तिविनाशप्रतीतिरेवमपाधिकी किं न कल्प्यते । तत्र तथाभूतोपाध्यभावादिति चेत् । न । किं शब्दे उत्पत्तिविनाशप्रतियोगी कश्चिदुपाधिर्नियतः प्रतीयते येनैषा प्रतीतिरन्यथासिद्धा स्यात् । ननु वायुधर्मो नादो व्यञ्जकः, तदुत्पत्तिविनाशनिबन्धनैवोत्पत्तिविनाशप्रतीतिः ककारादीनामिति । मैवम् । वायुधर्मस्य श्रोत्रेणानाकलनात् " आकलने वा नादस्यैव हि ककाराद्युपाधिकोत्पत्तिविनाशावित्येव किमिति नाङ्गीकुरुषे येनैवं लज्जामपहाय पुनः पुनः जल्पसि । एवं कण्ठताल्वादिवाद्यभिघातादीना मुपाधित्वं प्रत्याख्यातम् ।
१०३
१. P reads प्रतिषिध्यते । २. P + I. O read किञ्चिदेव । ३. P reads व्यञ्जकत्वात् । ४. P reads • व्यजनव्यमपत्वम् । ५. I. O reads • बलाकादिरूपपरिमाणादिभिः । ६P + I O read गन्धत्वादिना । ७. M1 reads ज्ञायमानत्वात् । ८. P reads किमिति । ९. P drops न and reads तत् किम् । १० P+ I. O. read ककारादौ । ११. P reads श्रोत्रेऽनाकलनात् । १२. Preads (अ) पहाच प्रलपसि, IO. reads पुनः पुनः प्रजल्पसि । १३. I. O reads •संयोगाभिघातादीनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org