________________
"
(२४) शब्दानित्यतावादः ।
इहै प्राभाकराः शब्दस्य नित्यत्वमिच्छन्तो बहुधा बहुभिर्निषिद्धा एव । तथापि तत्प्रतिषेधार्थं किञ्चिदुच्यते । तत्र प्रामाकराणामैयमाशयः । प्रत्यभिज्ञानं यावत् गकरादिगोचरं तावत्कालावस्थायिगकारा देग चरयदनुभवसिद्धं, तत्र तेन यद्यपि नित्यता न विषयीक्रियते तथापि तदुपजीवनप्रवृत्तविचारात् नित्यता सिध्यति । तथाहि कारणनाशाद्वा शब्दनाशः विरोधिगुणाद्वा । कारणनाशादपि समवायिकारणनाशाद्वा असमवायिकारणनाशाद्वा निमित्तकारण नाशाद्वा । न तावदाद्यः । समवायिनो नित्यत्वात् । न द्वितीयः, असमवायिकारणनाशानन्तरमपि प्रत्यभिज्ञानदर्शनात् । एवं निमित्तनाशेऽपि । न द्वितीयः, विरोधिगुणसद्भावेऽपि प्रत्यभिज्ञानतादवस्थ्यात् । न च प्रत्यभिज्ञानं भ्रान्तं, बाधकाभावात् । तारत्वादिकविरुद्धधर्मसंसर्गों बाधक इति चेन्न । तारत्वादेः औपाधिकत्वात् स्वाभाविकशब्दधर्मत्वाभावात् । जातित्वे वा कत्वादीनां परापरभावानुपपत्तेः, औपाधिकत्वे तु उपाध्यग्रहे कथम् तद्ग्रह इति चेन्न । सुरभिः समीरण इत्यत्रोपाध्यग्रहेऽपि सौरभग्रहदर्शनात् । उष्णं जलं, शीतं शिलातलमित्यत्रैव वा तारत्वादेर्विरुद्धधर्मत्वमेवासिद्धम् । यस्तार आसीत् स एवेदानीं मन्द्र इति प्रत्ययात् तारान्मन्द्रोऽन्ये इत्यपि क्वचित् प्रतीयत इति चेन्न । एकस्मिन्नेव घटे श्यामोऽयं न लोहित इति प्रत्ययवद्धर्मभेदविषयेऽप्युपपत्तेः । एवमपि वा तारे तारतरे च प्रत्यभिज्ञानमबाधितमेव । न च जातेरैक्यमादाय प्रत्यभिज्ञा चरितार्था, स एवायं गकार इति प्रत्ययात् । अन्यथा सर्वत्र धर्मिणि प्रत्यभिज्ञानमुच्छिद्येत । तथा च स्थैये" बहु व्याकुलं भवेत् ।
.
किञ्चानित्यत्वे शब्दस्य किं प्रमाणं श्रुतपूर्वो गकारो विनष्ट इति प्रत्यक्षमिति चेन्न । अयोग्याधिकरणाभावस्याऽतीन्द्रियत्वात् । अन्यथा वायुस्पर्शध्वंसस्याप्रत्यक्षता न स्यात् । न चेदं ज्ञानं लैङ्गिकं प्रत्यभिज्ञानबाधितत्वात् । आकाशमात्र गुणत्वेनै सत्प्रतिपक्षत्वाच्च, प्रत्यभिज्ञाने तु न
१ P+I. O. insert अभाववादः here, I have followed M1, Ma's ordering of chapters. । २. P misses इह । ३. Preads परेषाम् । ४. Momits गकारादिगोचरं and P reads तावत्काललव स्थायिनां गकारादीनां । ५. P reads प्रवृत्तिविचारात् । ६ M, misses a line here. । ७. P misses न here ८. M, misses औपाधिकत्वात्, P repeats - तारत्वादेः । ९ P+ I. O. read तथात्वे । १० P reads कत्वादिना । ११. P reads तारोऽयं न मन्द्रः । १२. P drops स्थैर्यं । १३. P reads •अधिकरणस्य । १४. P reads आकाशैकगुणत्वेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org