________________
अर्थापत्तिवादः।
१०१ स्थानमिति चेत् । सहावस्थानमेव तयोन कुतः । वैरीत्यनियमादिति यदि, तथाच व्याप्तिप्रतिसन्धानमावश्यकमिति न किञ्चिदेतत् ।
अस्तु तर्हि संशयः कारणम् । तथाहि शतवर्षजीवित्वं ज्योतिःशास्त्रादवगतम् । जीवो गृह एवेति व्याप्तिरुपलब्धा, अनन्तरं गेहे देवदत्ताभावम् उपलभ्य सन्दिह्यते । स च संशयः लाघवाख्यं तर्क सहकारिणमासाद्य बहिःसत्त्वमवधारयति । न च मरणमेव किमिति न कल्प्यते इति वाच्यम् । क्वचिदस्तिताचिरजीवित्वग्राहकप्रमाणद्वयबाधप्रसङ्गात् । बहिःसत्त्वकल्पने च गेहे एवेति नियमग्राहकमेव मानं बाध्यते इत्यस्ति लाघवमिति । मैवम् । संशयस्य कारणत्वे मानाभावात् । अनयोरेकं प्रमाणमस्तीति सामान्यतो दृष्टे कलुप्त एव हि प्रमाणे लाघवं सहकारि भवतु । अन्यथा फलनिःसरणाभावात् । अन्यथा अन्यत्राप्येवंविधचरणप्रसारिकया संशय एव कारणं स्यादिति गतं प्रमाणान्तरवार्नया । न च तर्कः कारण विपर्ययपर्यवसानादेव साध्यसिद्धेः । एवं पक्षान्तरमपि शक्यनिरसनमिति सर्व समञ्जसम् । इति अर्थापत्तिप्रकरणम् ॥श्री।।
१. P adds तर्हि here | २. P reads साध्यसिद्धिः । ३. For the first time Mi marks the end of a. chapter by इति अर्थापत्तिप्रकरणम्-P and I. O. read इत्यर्थापत्तिनिरासप्रकरणम्, I. O. numbers 22 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org