________________
न्यायसिद्धान्तदीपे
तर्क एव वा बहिःसवादिकल्पकोsस्तु । एवं हि सः-र्याद देवदत्तो • बहिरसन् स्यात् जीवित्वे सति गृहे असन्न स्यात् इति । यद्वा सच्चग्राहकं प्रमाणं यद्यभावग्राहकप्रमाणसमानविषयकं स्यात् तदा प्रमाणमेव न स्यात्' - इति प्रतिसन्धानमेवात्र कारणं व्यवस्थितमनुमापकम् अव्यवस्थितं कल्पकमिति वचनादिति ।
१००
अत्रोच्यते । काऽसावनुपपत्तिः यस्याः कारणत्वं व्याप्तिपक्षधर्मत्वावगमं विना | बहिःसत्वं विना जीविनो गृहसच्त्वाभावः सेति चेत् । नन्वयविनाभाव एव, इयमेव च व्याप्तिः, तथा चानुपपत्तिर्व्याप्तिरित्येक एवार्थ * इति नाममात्र परिवर्त्तः । एतेन व्यतिरेकिमानमर्थापत्तिरित्यपि परास्तम् । व्यतिरेकिणोऽपि व्याप्तिपक्षधर्मताधीनतासम्भवात् । तथाच पुनरपि नामान्त रकरणमेव । न च लिङ्गाभावान्नानुमानता । 'जीविगृहासत्त्वस्यैव लिङ्गत्वात् । न चापक्षधर्मता । गृहनिष्ठाभावप्रतियोगित्वस्यैव तदर्थत्वात् । न चासनि कृष्टे कथं तदग्रह इति वाच्यम् । उभयवादिसमाधेयत्वात् । अर्थापत्तिवादिनापि गृहनिष्ठाभावप्रतियोगित्वग्रहस्याभ्युपेयत्वात् । यथा पुनरसन्निकृष्टेsपि लिङ्गपरामर्शोदयः तथोक्तं तृतीयलिङ्गपरामर्शस्थले ।
न च क्वचिदस्तीति प्रमाणस्य गृहगोचरतासम्भावनया गृहासत्त्वं संदिग्धं सत्कथं लिङ्गमिति वाच्यम् । गृहासत्त्वस्य सन्दिग्धत्वे हि कथमनुपपत्तिप्रतिसन्धानं परस्यापि । एवं जीवित्वसंशयेऽपि । अन्यथा मरणकल्पनापत्तेः । जीविनो हि गृहासत्त्वं व्यवस्थितं सद् बहिःसत्त्वं विनाऽनुपपन्न तत्कल्पकमिति तद्दर्शनम् ।
किञ्च क्वचिदस्तीति प्रमाणस्य गृहविषयता सन्दिग्धा । गृहे नास्तीति प्रमाणं गृहाभावनिश्चायकम् । तथा च तेनैव तत्संशयनिरासः, निश्चिते संशयाभावात् । अन्यथा संशयस्यानुच्छेद्यता स्यात् ।
न च विरोधप्रतिसन्धानमर्थापत्तिः । क्वचिदस्ति, गेहे नास्तीति प्रमाणयोर्विरोधाभावात् । तथापि तत्प्रतिसन्धानमस्तीति चेत् । अस्त्वेवमपि नातिरेकः" । तथाहि कोऽसौ विरोधः । अस्तित्वनास्तित्वयोः सहानव१. P reads तदाऽप्रमाणमेव स्यात् । २. Preads अवस्थितम् । ३. P reads सेति सेत्स्वतीति । ४. P reads पदार्थः । ५. P+I. O read निरस्तम् । ६ P drops जीवि । ७. P reads व्यवस्थितं हि सत्त्वं विना । ८ Padds न here | s. I.O. misses गृहविषयता सन्दिग्धा । १०. P + I O read गृहात्त्वनिश्चायकम् । ११. P reads नानुमानातिरेकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org