________________
(२३) अर्थापत्तिवादः ।
इहार्थापत्तिमनुमानातिरिक्तं प्रमाणमिति परे मेनिरे । तत्र तेषामयमाशयः, जीवतो देवदत्तस्य गेहाभावदर्शनेन बहिःसत्त्वं प्रतीयते इति तावत्सर्वानुमतम् । तत्र न गेहाभावः हेतुः व्यधिकरणत्वात् । न च जीविगृहाभावबहि:सत्त्वयोः व्याप्तिप्रतिसन्धानं सर्वेषां कथं चेन्द्रियास निकृष्टे देवदत्ते हेतोः पक्षधर्मताग्रहः । न च तं विनाऽप्यनुमानमतिप्रसङ्गात् । एवं 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्रापि तावन्निशाभोजनमनुभूयते । न चात्रापि व्याप्तिग्रहनियम इति पूर्ववहनीयम् ।
.
ननु बहिःसत्त्वमात्रं विना अनुपपत्तिः, देवदत्तबहिःसत्त्वं विना वा ॥ नाद्यः । एवं बहिः सत्त्वमात्रं कल्पेत, न तु देवदत्तस्य । द्वितीये तदीयं बहि:सत्वं प्रतीतमप्रतीतं वा । आधे किमर्थापच्या परिच्छेद्यं तदीयबहिः सश्वस्य प्रमाणान्तरादेव सिद्धेः । द्वितीये तु कथमप्रतीते नानुपपत्ति निरूपणम् । अनिरूपिता वाऽनुपपत्तिः कथं गमिका, अतिप्रसङ्गात् । अनुमानं तु पक्षधर्मतावलाद विशिष्टबहिःसत्त्वसाधकमिति न तत्रानुपपत्तिरिति । मैवम् । विशकलितेनैव बहिःसत्त्वादिनाऽनुपपत्तिनिरूपणात् । विशिष्टावगमस्त्वर्थापत्तेरेव फलम् । एवं दिवाऽभोजित्वेनैव' पीनत्वानुपपत्तिनिरूपणम् । रात्रिभोजनं तु तेन क्वचिदपि न प्रतीतम् । अत एव नानुमानता साध्याप्रसिद्धेः । भोजनं तु पुष्टिकारणतया क्लृप्तं समयान्तरमादाय विश्राम्यति । विरोधप्रतिसन्धानमेव वा कारणं, तदेवार्थापत्तिपदवाच्यम् । फलं पुनरस्य सामान्यप्रवृत्तविशेषप्रवृत्तप्रमाणयोः भिन्नविषयतया अविरोधबुद्धिः ।
-
अत्र कैश्चिदुक्तं - विरुद्धधर्माध्यासप्रतिसन्धानादेवानयोर्भिन्नविषयत्वं सिद्धमिति किमर्थापत्त्या । न च विरुद्धधर्माध्यासासिद्धिः । अस्तित्वनास्तित्वलक्षणस्य तस्यानुभवसाक्षिकत्वात्, अन्यथा विरोधप्रतिसन्धानानुपपत्तिरिति ।
तदपि नैं । सामान्यतो भेदावगमेऽपि गृहान्यत्वेन गृहभिन्नतापरिच्छेदस्यँ क्वचिदस्तीति प्रमाणेऽर्थापत्त्यधीनत्वात् । विरोधसम्भावना प्रामाण्यसम्भावना वा विरुद्धयोः कारणं तदेवार्थापत्तिस्थाने निवेशनीयम् ।
Jain Education International
१. P reads सन्धानम् । २. शेषानन्त reads तौ । P reads ताम् । ३. P reads व्याप्त्यादिग्रह नियम:, Mg reads व्याप्तिग्रहे नियमः । ४. P reads न चानिरूपिता । ५. P reads दिवाभोजवे सति तेनैव । ६. I. O reads एतदपि न । ७. P reads न गृहभिन्नतापरिच्छेदः ।
For Private & Personal Use Only
www.jainelibrary.org